SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः। २१३ दम्भेः स्वरस्यावित्परोक्षायामः स्यात् नचद्विस्तद्योगे च नोटुक् । देभुः ॥ २८ ॥ थे वा । ४ । १ । २९। दम्भेः स्वरस्य थव्येर्वा स्यात्तद्योगे च नोलुङ् नचद्विः । देभिथ । ददम्भिथ ॥ २९ ॥ नशसददिवादिगुणिनः । ४ । १ । ३० । शसिदयोर्वादीनां गुणिनां च स्वरस्यैर्न स्यात् । विशशसुः । विशशसिथ | दददे | ववले । विशशरुः । विशशरिथ ॥ ३० ॥ हौ दः । ४ । १ । ३१ । दासंज्ञस्य हौ पर, एः स्यान्नचद्विः । देहि । धेहि ॥ ३१ ॥ देर्दिगिः परोक्षायाम् । ४ । १ । ३२ । देङः परोक्षायां दिगिः स्यान्नचद्विः । दिग्ये ॥ ३२ ॥ ङे पिवः पीप्य् । ४ । १ । ३३ । यन्तस्य पिवते परे पीप्य् स्यात् नचद्विः । अपीप्यत् ॥ ३३ ॥ अडे हिनोहोघः पूर्वात् |४|१|३४| हिहनोर्डवर्जे प्रत्यये परे द्वित्वे सति पूर्वस्मात्परस्य होघः स्यात् । प्रजिघाय | जंघन्यते । अङ इति किम् । प्राजीइयत् ॥ ३४ ॥ जेर्गि: सन्परोक्षयोः । ४ । १ । ३५ । सन्परोक्षयोर्द्वत्वे सति पूर्वात्परस्य जेर्गि: स्यात् । जिमीपति । विजिग्ये ॥ ३५ ॥ चेः किव । ४ । १ । ३६ ।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy