________________
हैमशम्दानुशासनस्य अनादेशादेरेकव्यञ्जनमध्येऽतः।४।१।२४।
अवित्परोक्षासेट्थवोः परयोर्योऽनादेशादिस्तत्सम्बन्धिनः स्वरस्यातोऽसहायव्यञ्जनयोर्मध्यगतस्यैः स्यान्नचद्विः । पेचुः । पेचिथ । नेमुः। नेमिथ । अनादेशादेरिति किम् । बभणतुः। एकव्यञ्जनमध्य इति किम् । ततक्षिथ । अत इति किम् । दिदिवतुः । सेट्थवीत्येव । पपकथ ॥ २४ ॥
तृत्रपफलभजाम्।४।१।२५। एषामवित्परोक्षासेट्थवोः स्वरस्यैः स्यान्नचद्धिः । तेरुः । तेरिथ । त्रेपे । फेलुः । फेलिथ । भेजुः। भेजिथ ॥ २५ ॥ जभ्रमवमत्रसफणस्यमस्वनराजभ्राज
भ्रासभ्लासोवा।४।१।२६। एषां स्वरस्याऽवित्परोक्षासेट्थवोरेर्वा स्यान्नतिः । जेरुः । जजरुः । जेरिथ । जजस्थि । भ्रमः । बभ्रमुः । भ्रमिथ । बभ्रमिथ । वेमुः। ववमुः। वेमिथ । ववमिथ । त्रेमुः। तत्रसुः। त्रसिथ । तत्रसिथ । फेणुः । पफणुः । फेणिथ । पफणिथ । स्येमुः। सस्यमुः । स्पेमिथ । सस्यमिथ । स्खेनुः । सस्वनुः। स्वेनिथ । सस्वनिथारेजुः। रराजुः। रेजिथ। रराजिथ । भेजे । बम्राजे । भ्रसे । बभ्रासे । भ्लेसे । बभ्लासे ॥ २६ ॥ वा श्रन्थग्रन्थोन लुक् च।४।१।२७।
अनयोः स्वरस्यावित्परोक्षासेट्थवोरेर्वा स्यात्तद्योगे च नोलुङ् नचद्विः ।श्रेयुः। शश्रन्थुः। श्रेथिथ ।शश्रन्थिथ । प्रेयुः। जग्रन्थुः। ग्रेथिथ। जग्रन्थिथ ॥ २७॥
दम्भः ।४।१।२८।