SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ - स्वोपज्ञलक्षुवृत्तिः। २११ ऋध ईत् । ४।१।१७। ऋधः सादौ सनि परे ईर्ष्यात न चास्य दिः । इसति । सीत्येव । अदिधिषति ॥ १७॥ दम्भोधिप्धीप् । ४।१।१८। दम्भे सि सनि धिप्धीपो स्यातां नचास्य द्विः । धिप्सति । धीप्सति । सीत्येव । दिदंभिषति ॥ १८॥ अव्याप्यस्य मुचेर्मोग्वा।४।१।१९। मुचेरकर्मणः सि सनि मोग्या स्यान्नचास्य द्विः । मोक्षति । मुमुक्षति चैत्रः । अव्याप्यस्येति किम् । मुमुक्षति वत्सम् ॥ १९ ॥ मिमीमादामित्स्वरस्य।४।१।२० । मिमीमादासंज्ञानां स्वरस्य सिसनीत्स्यान्नच द्विः । मित्सति । मित्सते । मित्सते । दित्सति । धित्सति ॥ २० ॥ रभलभशकपतपदामिः।४।१।२१ । एषां स्वरस्य सि सनि इस्यान्नच द्विः। आरिप्सते । लिप्सते. । शिक्षति । पित्सति । पित्सते । सीत्येव । पिपतिषति ॥ २१ ॥ राधेर्वधे।४।१।२२। राधेर्हिसार्थस्य सि सनि स्वरस्य इ. स्यान्नचदिः। प्रतिरित्सति । वधइति किम् । आरिरात्सति ॥ २२ ॥ अवित्परोक्षासेट्थवोरेः।४।१।२३। राधेहिसार्थस्याविति परोक्षायाँ थवि च सेटि स्वरस्य एः स्यान्नच दिः । रेधुः । रेधिथ । अविदिति किम् । अपरराध । वध इत्येव । आरराधतुः ॥ २३ ॥ .
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy