________________
स्वोपाल कृतिः । सन्नन्तस्य यस्न्तस्य चाद्यएकस्वरोंऽशो दिः स्यात् । तितिक्षते । पापच्यते ॥ ३॥
स्वरादेद्वितीयः। ४।१।४। स्वरादेवमुक्तिभाजोद्वितीयोऽश एकस्वरोद्विः स्यात् । अटिटिषति । अशाश्यते । प्राक्तुस्वरे स्वरविधेरित्येव । आटिटत् ॥ ४ ॥
न बदनं संयोगादिः।४।१।५।
स्वरादेर्दातोद्वितीयस्यांशस्यैकस्वरस्य बदनाः संयोगस्याद्या न द्विः स्युः । उब्जिजिषति । अट्टिटिषति । उन्दिदिषति । संयोगादिरिति किम् । प्राणिणिषति ॥ ५ ॥
आयिरः।४।१।६। स्वरादेर्दातोद्धितीयस्यांशस्यैकस्वरस्य संयोगादीरोदिन स्यात् नतु रादनन्तरे यि । अर्चिचिषति । अयीति किम् । अरार्यते ॥ ६ ॥ नाम्नोद्वितीयाद्यथेष्टम्। ४।१।७।
स्वरादेर्नामधातोदित्वमाजोद्वितीयादारभ्येकस्वरोंऽशोयथेष्टं दिः स्यात् । अशिश्वीयिषति । अश्वीयियिषति । अश्वीयिषिषति ॥ ७ ॥
अन्यस्य । ४।१।८। ___ स्वरादेर्नामधातोरन्यस्य द्वित्वमाज एकस्वरोंशोयथेष्टं प्रथमादिदिः स्यात् । पुपुत्रीयिषति । पुतित्रीयिषति । पुत्रीयियिषति । पुत्रीयिषिषति ॥ ८॥
कण्ड्वादेस्तृतीयः।४।१।९। कण्ड्वादेर्दित्वभाज एकस्वरोंऽशस्तृतीया एवद्विः स्यात् । कण्डूयियिषति । असूयियिषति ॥ ९॥