________________
२०४
पिशब्दानुशासनस्य
सन् । अचिकीर्षिष्ट, चिकीर्षते कटः स्वयमेव । किरादिः । अकीर्ट, किरते वा पांशुः स्वयमेव । अगीट, गिरते वा ग्रासः स्वयमेव । णि । कारयत कटः स्वयमेव । चारयते गौः स्वयमेव । प्रस्तुत गौः स्वयमेव । त्रि । उच्छ्रयते दण्डः स्वयमेव । आत्मनेपदाकर्मकात् । विकुर्वते सैन्धवाः स्वयमेव ॥ ९३॥
करणक्रियया कचित् । ३ । ४ । ९४ ।
एकधातौ पूर्वदृष्ट्या करणस्थया क्रियया एकाकर्मक्रिये कर्त्तरि freeत्मनेपदानि स्युः क्वचित् । परिवारयन्ते कण्टका वृक्षं स्वयमेव । कचिदिति किम् । साध्वसिच्छिनत्ति ॥ ९४ ॥
इत्याचार्यदेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ तृतीयोऽध्यायः समाप्तः ॥
अर्हम
द्विर्धातुः परोक्षाङेप्रात्तुस्वरेस्वरविधेः । ४ । १ । १ ।
परोक्षायां के च परे धातुर्द्विः स्यात् खरादौ तु द्विलनिमित्ते स्वरस्य कार्यात प्रागेव । पपाच । अचकमत । धातुरिति किम् । प्राशिश्रिवत् । प्रागिति किम् । चक्रतुः । स्वर इति किम् । जेीयते । स्वरविधे रिति किम । शुशाव। प्राक्तुस्वरे स्वरविधेरित्यादिर्द्विर्वचनाधिकारः॥१॥
आद्योंऽश एकस्वरः । ४ । १ । २ ।
researer धातोराrएकस्वरोऽवयवः परीक्षा डेपरे दिः स्यात् । जजागार | अचीकाणत् । अचकाणत् । अचीकरत् ॥ २ ॥ सन्यङश्च । ४ । १।३।