SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञः । २०७ न कर्मणा ञ । ३ । ४ । ८८ । पचिदुहिभ्यां कर्म्मणा योगे अनन्तरोक्ते कर्त्तरि ञिच् न स्यात् । अपक्तोदुम्बरः फलं स्वयमेव । अदुग्ध गौः पयः स्वयमेव । कर्मणेति किम् । अपाच्योदनः स्वयमेव । अनन्तरोक्ते कर्त्तरीत्येव । अपाच्युदुम्बरः फलं वायुना ॥ ८८ ॥ रुधः । ३ । ४ । ८९ । रुधोऽनन्तरोक्ते कर्त्तरि ञिच न स्यात् । अरुद्ध गौः स्वयमेव ॥ स्वरदुहोवा । ३ । ४ । ९० । स्वरान्ताद् दुहेश्वानन्तरोक्ते कर्त्तरि जिज्वा स्यात् । अकृत, अकारि वा कटः स्वयमेव । अदुग्ध अदोहि वा गौः स्वयमेव ॥ ९० ॥ तपः कर्त्रनुतापे च । ३ । ४ । ९१ । तपेः कर्मकर्त्तरि कर्त्तर्यनुतापे चार्थे ञिच न स्यात् । अन्ववातस कितवः स्वयमेव । अतप्त तपांसि साधुः । अन्वतप्त चैत्रेण । अन्ववातस पापः स्वकर्मणा । कर्त्रनुतापेचेति किम् । अतापि पृथिवी राज्ञा ॥ ९१ ॥ णिस्नुयात्मनेपदाकर्म्म कात् | ३ | ४ | ९२ । ण्यन्तात् स्तुश्रिभ्यामात्मनेपदविधावकर्मकेम्यश्च कर्मकर्त्तीर चि न स्यात् । अपीपचदोदनं चैत्रेण मैत्रः । अपीपचतौदनः स्वयमेव । प्रास्नोष्ट गौः स्वयमेव । उदशिश्रियत दण्डः स्वयमेव । व्यक्त सैन्धवः स्वयमेव ॥ ९२ ॥ भूषार्थसनकिरादिभ्यश्च ञिक्यौ | ३ | ४ | ९३ | भूषार्थेभ्यः सन्नन्तेभ्यः किरादिम्योण्यादिभ्यश्च कर्म्मपनीर भिक्यौ न स्याताम् | अलमकृत कन्या स्वयमेव । अलंकुरुते कन्या स्वयमेव ।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy