________________
२०३
हैम शब्दानुशासनश्प
सृजः श्राद्धे क्यात्मने तथा | ३ | ४|८४ |
सृजः पराणि श्रद्धावति कर्त्तरि ञिक्यात्मनेपदानि स्युस्तथा यथा पूर्व विहितानि । असर्जि । सृज्यते, स्रक्ष्यते वा मालां धार्मिकः । श्राद्धइति किम् । व्यत्यसृष्ट माले मिथुनम् ॥ ८४ ॥
तपस्तपः कर्म्मकात् । ३ । ४ । ८५ ।
तपेस्तपःकर्मकात्कर्त्तरि त्रिक्यात्मनेपदानि स्युस्तथा । तप्यते, तेपे वा तपः साधुः । तप इति किम् । उत्तपति स्वर्ण स्वर्णकारः । कर्मेति किम । तपः साधुं तपति ॥ ८५ ॥
एकधातौ कर्मक्रिययैकाऽकर्मक्रिये । ३ । ४ । ८६ ।
एकस्मिन्धातौ कर्म्मस्थक्रियया पूर्वदृष्टया एका अभिन्ना सम्प्रत्यकर्मिका क्रिया यस्य तस्मिन् कर्त्तरि कर्मकर्तृरूपे धातोर्जिक्यात्मनेपदानि स्युः । अकारि । क्रियते, करिष्यते वा कटः स्वयमेव । एकधाताविति कि । पचत्योदनञ्चैत्रः । सिध्यत्योदनः स्वयमेव । कर्मक्रिययेति किम् । साध्वसिश्छिनत्ति । एकक्रिय इति किम । श्रवत्युदकं कुण्डि - का । श्रवत्युदकं कुण्डिकायाः । अकमक्रिय इति किम् । भिद्यमानः कुशूलः । पात्राणि भिनत्ति ॥ ८६ ॥
पचिदुहेः | ३ | ४ | ८७|
एकधातौ कर्मस्थक्रियया पूर्वदृष्ट्या अकर्मिकया सकर्मकया वा एकक्रिये कर्त्तरि कर्मकर्तृरूपे आभ्यां ञिक्यात्मनेपदानि स्युः । अपाचि, पच्यते, पक्ष्यते वा ओदनः स्वयमेव । अदोहि दुह्यते, धोक्ष्यते, वा गौः स्वयमेव । उदुम्बरः फलं प्रच्यते अपक्त वा स्वयमेव । दुग्धे, अदुग्ध वा पयो धोक्यते मौः स्वयमेव ॥ ८७ ॥