SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ सो तक्षः स्वार्थे वा।३।४।७७॥ स्वार्थस्तनुवं तद्वत्तस्तक्षः कर्तृविहिते शितिनुर्वा स्यात् । तक्ष्णोति। सक्षति । स्वार्थ इति किम् । संतक्षति शिष्यम् ॥ ७७ ॥ स्तम्भूस्तुम्भूस्कम्भूस्कुम्भूस्कोः ना च।३।४। ७८ । स्तम्बादेः सौत्राद्धातोः स्कुङ्गश्च कविहिते शिति श्ना श्नुश्च स्यात् । स्तम्नाति। स्तभ्नोति। स्तुम्नाति। स्तुभ्नोति । स्कन्नाति । स्कभ्नोति । रकुम्नाति । स्कुम्नोति । स्कुनाति । स्कुनोति ॥ ७८ ॥ यादेः । ३।४। ७९। प्रयादेः कर्तृविहित शिति ना स्यात् । कोणाति । प्रीणाति ॥ व्यञ्जनाच्छ्नाहेरानः। ३।४।८०। व्यन्जनात्परस्य भायुक्तस्य हेरानः स्यात् । पुषाण । मुषाण । व्यञ्जनादिति किस् । लुनीहि ॥ ८ ॥ ... तुदादेः शः । ३।४।८१। एभ्यः कर्तृविहिते शिति सः स्यात् । तुदति । चुदति ॥ ८॥ . रुधां स्वराच्छ्नोनलुक्च। ३।४।८२। रुधादीनां स्वरात्परः कर्तृविहिते शिति भः स्यात्तद्योगे प्रकृते! लुक यथासम्भवम् । रुणद्धि । हिनस्ति ॥ ८२॥ कृन्तनादेरु।३।४। ८३। कृगस्तनादिभ्यश्च कविहित शिति उ स्यात् । करोति । तनो ति ।। ८३॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy