SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ .. हेमन्दानुशासनात्य गुरु म्यादिर्यस्य तस्माद्धातोः, ऋच्छूर्णवर्जात्परस्याः परोक्षाया आम् स्यात् आमन्ताच परे कन्धस्तयः परोक्षान्ता अनुप्रयुज्यन्ते । ईहाञ्चके । ईहाम्बभूव । ईहामास । गुर्विति किम् । इयेष । नामीति किम् । आनर्च । आदीति किम् । निनाय । अनृच्छ्रोरिति किम् । आनछ । मोर्णनाव ॥४८॥ जाग्रुषसमिन्धेनवा । ३।४। ४९ । एभ्याधातुभ्यः परस्याः परोक्षाया आम् वा स्यात् आमन्ताच्च परेकृम्वस्तयः परोक्षान्ता अनुप्रयुज्यन्ते । जागराञ्चके । जागराम्बभूव । जागरामास । जजागार । उषाञ्चकार । उवोष । समिन्धाञ्चके । समीधे ॥ ४९॥ भीहीभृहोस्तिव्वत् ।३।४।५०। एभ्यः परस्याः परोक्षाया आम् वा स्यात् स च तिब्बत् आमन्ताच परे कृम्वस्तयः परोक्षान्ता अनुप्रयुज्यन्ते । बिभयाञ्चकार । बिभचाम्बभूव । बिभयामास । बिमाय । जिझ्याञ्चकार । जिहाय। बिभराञ्चकार । बभार । जुहवाञ्चकार । जुहाव॥ ५० ॥ वेत्तेः कित् । ३।४। ५१ । वेत्तेः परस्याः परोक्षाया आम किद्धा स्यात् आमन्ताच कृभ्वस्तयः परोक्षान्ता अनुप्रयुज्यन्ते। विदाञ्चकार। विवेद ॥५१॥ पञ्चम्याः कग। ३।४।५२ । वेत्तेः परस्याः पञ्चम्याः किदाम्बा स्यात आमन्ताच परः पञ्चम्यन्तः कृगनुप्रयुज्यते । विदाङ्करोतु । वेत्तु ।। ५२॥ सिजद्यतन्याम् । ३।४। ५३। अद्यतन्यां परस्यां धातोः परः सिच नित्यं स्यात् । अनैषीत्।।५३॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy