________________
व्रतं शास्त्रविहितोनियमः, व्रताद्धज्यर्थात्तनिवृत्त्यर्थाश्च अगादिष्वर्थेषु णिज्बहुलं स्यात् । पयोव्रतयति । सावद्यान्नं व्रतयति ॥ ४३ ॥ . .
सत्यार्थवेदस्याः । ३।४।४४। एषां णिच्सन्नियोगे आः स्यात् । सत्यापयति । अर्थापयति । वेदापयति ॥ ४४ ॥ श्वेताश्वाश्वतरगालोडिताहरकस्याश्वतरे.. तकलुक् । ३।४।४५। ।
एषां णिज्योगे यथासङ्ख्यमश्वादेः शब्दस्य लुक् स्यात् । श्वेतयति । अश्वयति । गालोडयति ॥ आह्वरयति ॥ ४५ ॥ धातोरनेकस्वरादाम्परोक्षायाः कृभ्वस्ति
चानुतदन्तम् । ३।४।४६ । - अनेकखराद्धातोः परस्याः परोक्षायाः स्थाने आम्.. स्यात् आमन्ताच्च परे कृभ्वस्तयः परोक्षान्ता अनु पश्चादन्तरं प्रयुज्यन्ते । चकासाञ्चकार । चकासाम्बभूव । चकासामास । अनेकस्वरादिति किम् । पपाच । अनुविपर्यासव्यवहितिनिवृत्त्यर्थः । तेन चकार चकासाम् । ईहाश्चैत्रश्चक्रे इत्यादि न स्यात् ॥ ४६॥
दयायास्कासः।३।४।४७। एभ्योधातुभ्यः परस्याः परोक्षाया आम् स्यात् आमन्ताच्च परे कृभ्वस्तयः परोक्षान्ताऽनुप्रयुज्यन्ते । दयाञ्चके । दयाम्बभूव । दयामास । पलायाञ्चके । आसाञ्चके । कासाञ्चके ॥ ४७ ॥
गुरुनाम्यादेरनृच्छ्रोः ।३।४।४८।