________________
स्वोपज्ञलघुवृत्तिः ।
स्पृशमृशकृपतृपदृपो वा । ३ । ४।५४।
एम्योऽद्यतन्यां सिज वा स्यात् । अस्माक्षीत् । अस्पार्क्षत् । अस्पृक्षत् । अम्राक्षीत् । अमार्क्षीत् । अमृक्षत् | अकाक्षीत् । अकाक्षत् । अकृक्षत् । अत्राप्सीत् । अत्राप्सीत् । अतृपत्। अद्राप्सीत्। अदासीत । अहपत्।।५४॥
हशिटोनाम्युपान्त्या ददृशोऽनिटः
सक् । ३ । ४ । ५५ ।
हशिडन्तान्नाम्पुपान्त्याददृशोऽनिटोऽद्यतन्यां सक् स्यात् । अ क्षन् | अविक्षत् । हशिट इति किम् । अभैत्सीत् । नाम्युपान्त्यादिति किम् । अधाक्षीत । अदृश इति किम् । अद्राक्षीत । अनिट इति किम् । अकोषीत् ।। ५५ ।।
श्लिषः । ३ । ४ । ५६ ।
शिलषोऽनिटोऽद्यतन्यां सकू स्यात् । आश्लिक्षत्कन्यां मैत्रः । अनिट इत्येव । अश्लेषीत् ॥ ५६ ॥
नासत्वाश्लेषे । ३ । ४ । ५७ ।
श्लिषोऽप्राण्याश्लेषार्थात्सम्म स्यात् । उपाश्लिषजतु च काष्ठं च । असत्वाश्लेष इति किम् । व्यत्यविलक्षन्त मिथुनानि ॥ ५७ ॥
णिश्रिदुस्रुकमः कर्त्तरि ङः | ३|४|५८ |
ण्यन्ताच्छ्रयादिभ्यश्च कर्त्तर्यद्यतन्यां ङः स्यात् । अचीकरत् । अशिश्रियत् । अदुद्रुवत् । असुस्रुवत् । अचकमत् । कर्त्तरीति किस् । अकारविषातां कटौ मैत्रेण ॥ ५८ ॥
२६
वेश्वेर्वा । ३ । ४ । ५९ ।
।