________________
१९६
हेमशब्दानुशासनस्य
स्यात् । पुत्रीयति । पुत्रकाम्यति । अमाव्ययादिति किम् । इदमिच्छति । खरिच्छति ॥ २३ ॥
आधाराच्चोपमानादाचारे | ३ | ४ | २४ |
अमाव्ययादुपमाना द्वितीयान्तादाधाराच्चाचारार्थे क्यन् वा स्यात् । पुत्रीयति च्छात्रम् । प्रासादीयति कुटयाम् ॥ २४॥
कर्तुः क्विप् गल्भक्लीबहोडातुडित् । ३ । ४ । २५ ।
कर्तुरूपमानान्नाम्न आचाराऽर्थे किव्वा स्यात् । गल्भक्की बहोडेभ्यस्तु स एव डित् । अश्वति । गल्भते । क्लीवते । होडते ॥ २५ ॥ क्यङ् । ३ । ४ । २६ ।
कर्तुरुपमानादाचारेऽर्थे क्यङ् वा स्यात् । हंसायते ॥ २६ ॥
सोवा लुक्च । ३ । ४ । २७ ।
सन्तात् कर्तुरुपमानादाचारेऽर्थे क्यङ् वा स्यादन्तस्य च सोवा लुक् । पयायते । पयस्यते ॥ २७ ॥
ओजोऽप्सरसः । ३ । ४ । २८ ।
आभ्यां कर्तुरुपमानाभ्यामाचारे क्यङ्गा स्यात् सश्च लुक् । ओजायते । अप्सरायते ॥ २८ ॥
च्व्यर्थे भृशादेः स्तोः । ३ । ४ । २९ ।
भृशादेः कर्तु व्यर्थे क्य वा स्यात् यथासम्भवं स्तोर्लक्च । भृशायते । उन्मनायते । वेहायते । कर्तुरित्येव । अभृशम्भृशङ्करोति । व्यर्थं इति किम् । सृशोभवति ॥ २९ ॥ डाच् लोहितादिभ्यः षित् | ३ | ४ | ३० ।