SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुकृत्तिः। एभ्योधातुभ्यः स्वार्थे णिच् स्यात् । चोरयति । पदयति ॥ १७ ॥ युजादेवा । ३।४।१८। एभ्यः स्वार्थे णिज्वा स्यात् । योजयति । योजति । साहयति । सहति ॥ १८॥ भूङ प्राप्तौ णिङ् ।३।४।१९। ___भुवःप्राप्त्यर्थाण्णिङ्वा स्यात् । भावयते। भवते। प्राप्ताविति किम् । भवति ॥१९॥ प्रयोक्तृव्यापारे णिग् ।३।४।२०। कुर्वन्तं यः प्रयुङ्क्ते तद्वयापारे वाच्ये धातोणिग्या स्यात् । कारयति। भिक्षा वासयति । राजानमागमयति । कंसं घातयति। पुष्येण चन्द्रं योजयति । उज्जयिन्याः प्रस्थितोमाहिष्मत्यां सूर्यमुद्रमयति ॥ २० ॥ तुमर्हादिच्छायां सन्नतत्सनः।३।४।२१। योधातुरिषेः कर्मेषिणैव च समानकर्तृकः स तुमर्हस्तस्मादिच्छायामर्थे सन्वा स्यात् नत्विच्छासन्नन्तात्। चिकीर्षति । जिगमिषति । तुमहादिति किम् । यानेनेच्छति । भुक्तिमिच्छति मैत्रस्य । इच्छायामिति किम् । भोक्तुं याति । अतत्सन इति किम् । चिकीर्षतुमिच्छति । तदिति किम् । जुगुप्सिषते ॥ २१ ॥ द्वितीयायाः काम्यः । ३।४। २२ । द्वितीयान्तादिच्छायां काम्यो वा स्यात् । इदं काम्यति । द्वितीयाया इति किम् । इष्टः पुत्रः ॥ २२ ॥ अमाव्ययात्क्यन्च ।३।४ मान्ताव्ययाभ्यामन्यस्माद् द्वितीयान्तादिच्छायां क्यन् काभ्यश्च वा
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy