________________
१९४
हेमशब्दानुशासनस्य
अट्यर्त्तिसूत्रिमूत्रिसूच्यशूर्णोः । ३ । ४ । १० ।
एम्यो भृशा भीक्ष्ण्यार्थवृत्तिभ्योयङ् स्यात् । अटाटयते । अ । सोसूत्र्यते । मोमूत्र्यते। सोसूच्यते । अशाश्यते । प्रोण्णनूयते ॥१०॥
गत्यर्थात्कुटिले । ३ । ४ । ११ ।
व्यञ्जनादेरेकस्वराद् गत्यर्थात्कुटिल एवार्थे वर्त्तमानाद्धातोर्यङ् स्यात् । चङ्क्रम्यते । कुटिल इति किम् । भृशं क्रामति ॥ ११ ॥
गृलुपसदचरजपजभदशदहोग। ३ । ४।१२।
गर्ह्यर्थेभ्य एव एभ्यो यङ् स्यात् । निजेगिल्यते । लोलुप्यते । सासद्यते। चञ्चूर्यते । जञ्जप्यते । जञ्जभ्यते । दन्दश्यते । दन्दह्यते । गइति किम् । साधु जपति । भृशं निगिरति ॥ १२ ॥
न गृणाशुभरुचः । ३ । ४ । १३ । यो न स्यात् । निन्द्यं गृणाति । भृशं शोभत । भृशं रोचते ॥ १३ ॥
बहुलं लुप् । ३ । ४ । १४ ।
यङोलुप् बहुलं स्यात् । बोभूयते । बोभवीति । बहुलवचनात् क्वचिन्न भवति । लोलूया । पोपूया ॥ १४ ॥
अचि । ३ । ४ । १५ ।
होचि परे लुप् स्यात् । चेच्यः । नेन्यः ॥ १५॥ नोतः । ३ । ४ । १६ । उदन्ताद्विहितस्य यङोऽचि परे लुब् न स्यात् । रोरूयः ॥ १६ ॥
चुरादिभ्योणिच् । ३ । ४ । १७ ।