SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ स्वोपालप्रवृत्तिः। गुपोगर्दायां तिजः क्षान्तौ वर्तमानात् स्वार्थे सन् स्यात् । जुगुप्सते। तितिक्षते । गर्दाक्षान्ताविति किम् । गोपनम् । तेजनम् ॥ ५ ॥ कितः संशयप्रतीकारे । ३।४।६। कितः संशयप्रतीकारार्थात् स्वार्थे सन् स्यात् । विचिकित्सति मे मनः । व्याधि चिकित्सति । शंसयप्रतीकारार्थ इति किम् । कंतयति ॥६॥ शान्दान्मान्बधान्निशानार्जवविचारवैरूप्ये दीर्घश्चेतः। ३।४।७। एभ्यो यथासङ्ख्यं निशानाद्यर्थेभ्यः स्वार्थे सन् स्यात् । दीर्घश्चैषां द्वित्वे पूर्वस्येतः। शीशांसति । दीदांसति । मीमांसते । बीभत्सते । अर्थोक्तिः किम् । अर्थान्तरे माभूत् । निशानम् । अवदानम् । मानयति । बाधयति ॥ ७॥ धातोः कण्ड्वादेर्यक् ।३।४।८। एभ्योधातुभ्यः सार्थे यक् स्यात् । कण्डूयति। कण्डूयते। महीयते। धातोरिति किम् । कण्डूः ॥ ८॥ व्यञ्जनादेरेकस्वराद् भृशाभीक्ष्ण्ये यङ् वा।३।४।९। गुणक्रियाणामधिश्रयणादीनां क्रियान्तराव्यवधानेन साकल्येन संपत्तिः फलातिरेको वा भृशत्वं प्रधानक्रियाया विक्लेदादेः क्रियान्तराव्यधानेनावृत्तिराभीक्षण्यं, तद्विशिष्टार्थवृत्तातोर्व्यञ्जनादेरकस्वराद्यङ् वा स्यात् । पापच्यते । व्यञ्जनादेरिति किम् । भृशमीक्षते । एकस्वरादिति किम् । भृशं चकास्ति । वेति किम् । लुनीहि लुनाहीत्येवायं लुनाती त्यादि यथा स्यात् ॥९॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy