SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ १९२ हैमशब्दानुशासनस्य _चल्याहारार्थेबुधयुधप्रदुश्रुनश जनः।३।३।१०८ । चल्याहारार्थेभ्य इङादिभ्यश्च णिगन्तेभ्यः कर्तरि परस्मैपदं स्यात् । चलयति । कम्पयति । भोजयति । आशयति चैत्रमन्नम् । सूत्रमध्यापयति शिष्यम् । बोधयति पद्मं रविः । योधयति काष्ठानि । प्रावयति राज्यम् । द्रावयत्ययः । श्रावयति तैलम् । नाशयति पापम् । जनयति पुण्यम् ॥१०८॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ तृतीयस्याध्यायस्य तृतीयः पादः समाप्तः।३।३। अर्हम् गुपौधूपविच्छिपणिपनेरायः।३।४।१। एभ्योधातुभ्यः स्वार्थे आयः स्यात् । गोपायति । धूपायति । विच्छायति । पणायति । पनायति ॥१॥ कमेर्णिङ् । ३।४।२। कमेः स्वार्थ णिङ् स्यात् । कामयते ॥ २॥ . ऋतीयः । ३।४।३। ऋतेः स्वार्थे डीयः स्यात् । ऋतीयते ॥ ३ ॥ अशविते वा।३।४।४। गुपादिभ्योऽशब्विषये ते आयादयो वा स्युः। गोपायिता । गोप्ता । कामयिता। कमिता । ऋतीयिता । अर्तिता ॥ ४ ॥ गुप्तिजोगर्दाक्षान्तौ सन् । ३।४।५।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy