SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः। प्रत्यभ्यतेः क्षिपः ।३।३।१०२। एभ्यः परात् क्षिपेः कर्तरि परस्मैपदं स्यात् । प्रतिक्षिपति । अमि क्षिपति । अतिक्षिपति ॥ १०२ ॥ प्राद्वहः।३।३।१०३ । अतः कर्तरि परस्मैपदं स्यात् । प्रवहति ।। १०३ ॥ परेम॒षश्च । ३।३।१०४। - परेः परान्मृषेर्वहेश्च कर्तरि परस्मैपदं स्यात् । परिमृष्यति । परिवहति ॥ १०४ ॥ व्यापरे रमः। ३।३।१०५।। एभ्यः पराद्रमेः कर्तरि परस्मैपदं स्यात् । विरमति । आरमति । परिरमति ॥ १०५॥ वोपात् । ३।३।१०६। उपाद्रमेः कर्तरि परस्मैपदं वा स्यात् । भार्यामुपरमति । उपरमते वा ॥ १०६ ॥ आणिगि प्राणिकर्तृकानाप्याण्णि गः । ३।३।१०७। अणिगवस्थायां यः प्राणिकर्तृकोऽकर्मकश्च धातुस्तस्माण्णिगन्ता. कर्तरि परस्मैपदं स्यात् ।आसयति चैत्रम् । अणिगीति किम् । स्वयमेवारीहयमाणं गजं प्रयुङ्क्ते आरोहयते । अणिगिति गकारः किम् । चेतयमानं प्रयुङ्क्ते चेतयति। प्राणिकर्तृकादिति किम् । शोषयते बीहीनातपः। अना. प्यादिति किम् । कटं कारयते ॥१०७॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy