________________
१९०
हैमशब्दानुशासनस्य ईदितोगितश्च धातोः फलवति कर्त्तर्यात्मनेपदं स्यात् । यजते । कुरुते । फलवतीत्येव । यजन्ति । कुर्वन्ति ॥ ९५ ॥
ज्ञोऽनुपसर्गात् । ३।३। ९६ ।
अतः फलवति कर्त्तर्यात्मनेपदं स्यात् । गां जानीते । फलवती. त्येव । परस्य गां जानाति ॥ ९६ ।।
वदोऽपात् । ३ । ३। ९७ । अतः फलवति कर्त्तर्यात्मनेपदं स्यात् । एकान्तमपवदते। फलवती. त्येव । अपवदति परं स्वभावात् ॥ ९७ ॥
समुदाङोयमेरग्रन्थे ।३।३।९८ ।
एभ्यः परात् यमेरग्रन्थविषये फलवत्कर्तर्यात्मनेपदं स्यात् । संयच्छते ब्रीहीन् । उद्यच्छते भारम् । आयच्छते भारम् । अग्रन्थ इति किम् । चिकित्सामुद्यच्छति । फलवतीत्येव । संयच्छति ॥ ९८॥
पदान्तरगम्ये वा । ३।३। ९९।
प्रक्रान्तमूत्रपञ्चके यदात्मनेपदमुक्तं तत्पदान्तरगम्ये फलवत्कर्तरि वा स्यात् । सं शत्रु परिमोहयते । परिमोहयति वा। स्वं यज्ञं यजते यजति वा । स्वां गां जानीते जानाति वा । वं शत्रुमपवदते, अपवदति वा । स्वान् ब्रीहीन संयच्छतेसंयच्छति वा । ९९ ॥
शेषात्परस्मै । ३।३।१०॥ येभ्योधातुभ्यो येन विशेषेणात्मनेपदमुक्तं ततोऽन्यस्मात्कर्तरि परस्मै. पदं स्यात् । भवति । अत्ति ॥ १०० ॥
परानोः कृगः । ३।३। १०१ । परानुपूर्वात् कृगः कर्तरि परस्मैपदं स्यात् । परा करोति । अनुकरोति ॥ १०१ ॥