________________
स्वोपज्ञलघुवृत्तिः।
. १८९ आभ्यां णिगन्ताभ्यामर्चाभिभवप्रलम्भार्थाभ्यां कर्त्तर्यात्मनेपदं स्यादाच्चानयोरकर्त्तर्यपि । अर्चा । जटाभिरालापयते । अभिभवः । श्येनावर्तिकामपलापयते । प्रलम्भः । कस्त्वामुल्लापयते । अकर्तर्यपीति किम् । जटाभिरालाप्यते जटिलेन ॥९०॥ स्मिङः प्रयोक्तः स्वार्थे।३।३।९१ ।
प्रयोक्तृतोयः स्वार्थः स्मयस्तदर्थाण्णिगन्तास्मिङः कर्त्तर्यात्मनेपदं स्यादाचास्याकर्त्तर्यपि । जटिलोविस्मापयते । प्रयोक्तुः स्वार्थ इति किम् । रूपेण विस्मायपति । अकर्त्तर्यपीत्येव । विस्मापनम् ।। ९१॥
बिभेतीष्च।३।३। ९२ । प्रयोक्तृतः स्वार्थवृत्तेर्ण्यन्ताद्भियः कर्त्तर्यात्मनेपदं स्यादस्य च भीष् पक्षे आचाकर्त्तर्यपि । मुण्डोभीषयते, भापयते वा । प्रयोक्तुः स्वार्थ इत्येव । कुञ्चिकया भापयति । अकर्त्तर्यपीत्येव । भीषाभापनम् ॥
मिथ्याकृगोऽभ्यासे।३।३। ९३ ।
मिथ्यायुक्तात्कृगोण्यन्ताक्रियाभ्यासवृत्त्यर्थात्कर्त्तर्यात्मनेपदं स्यात् । पदं मिथ्या कारयते । मिथ्येति किम् । पदं साधु कारयति । अभ्यासइति किम् । सकृत्पदं मिथ्या कारयति ॥ ९३॥ परिमुहायमायसपाद्धेवदवसदमादरुचनृतः
फलवति ।३।३।९४ । प्रधानफलवति कर्तरि एभ्योविवक्षितभ्योणिगन्तेभ्य आत्मने पदं स्यात् । परिमोहयते चैत्रम् । आयामयते सर्पम् । आयासयते मैत्रम् । पाययते बटुम् । धापयते शिशुम् । वादयते बटुम् । वासयते पान्थम् । दमयते अश्वम् । आदयते चैत्रण । रोचयते मैत्रम् । नर्तयते नटम् ॥ ९४ ॥
इंगितः ।३।३।९५॥