________________
हेमशब्दानुशासनस्य
आङोयमहनः स्वेऽङ्गे च । ३।३। ८६ ।
आङः पराभ्यां यम्हन्भ्यां कर्मण्यसति कर्तुः स्वेऽङ्गे च कर्मणि कर्त्तर्यात्मनेपदं स्यात् । आयच्छते, आहते वा । स्वेऽङ्गे । अयच्छते, आहते वा पादम् । खेऽङ्गेचेति किम् । आयच्छति रज्जुम् || ६ ||
व्युदस्तपः । ३ । ३ । ८७।
१८८
आभ्यां परात्तपेः कर्म्मण्यसति स्खेऽङ्गे च कर्म्मणि कर्त्तर्यात्मनेपदं स्यात् । वितपते । उत्तपते रविः । वितपते । उत्तपते पाणिम् ॥ ८७ ॥
अणिक्कर्म णिक्कर्तृकाणिगोऽस्मृतौ । ३ । ३ । ८८ ।
अणिगवस्थायां यत्कर्म तदेव णिगवस्थायां कर्त्ता यस्य तस्मादणिगन्तादस्मृत्यर्थात्कर्त्तर्यात्मनेपदं स्यात् । आरोहयते हस्ती हस्तिपकान् । अणिगितीति किम् । आरोहयति हस्तिपकान्महामात्रः । आरोहयन्ति महामात्रेण हस्तिपकाः । गिरिकम् । गणयते गणोगोपालकम् । कर्मेति किम् । दर्शयति प्रदीपो भृत्यान् । णिगिति किम् । लुनाति केदारं चैत्रः । लूयते केदारः स्वयमेव, तं प्रयुङ्क्ते लावयति केदारं चैत्रः । कर्त्तेति किम् । आरोहन्ति हस्तिनं हस्तिपकाः । तानारोहयति माहामात्रः । णिग इति किम् । आरोहन्ति हस्तिनं हस्तिपकाः । तानेनमारोहयते हस्तीत्यणिगि माभूत् । अस्मृताविति किम् । स्मरयति वनगुल्मः कोकिलम् ||८८|| प्रलम्भे गृधिवचेः । ३।३।८९।
आभ्यां णिगन्ताभ्यां प्रलम्भनार्थाभ्यां कर्त्तर्यात्मनेपदं स्यात् । बढुं गर्द्धयते, वञ्चयते वा । प्रलम्भइति किम् । श्वानं गर्द्धयति ॥ ८९ ॥
लीलिनोऽर्चाभिभवे चाच्चाकर्त्तर्य्यपि । ३ । ३ । ९० ।