SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुषृत्तिः । १८७ विरुद्धार्थोवादविवादः, व्यक्तवाचां विवादरूपसहोक्तद्वदः कर्त्तर्यात्मनेपदं स्यात् । विप्रवदन्ते, विप्रवदन्ति वा मौहूर्त्ताः । विवाद इति किम् । संप्रवदन्ते वैयाकरणाः । सहोतावित्येव । मौहूर्तो मौहूर्त्तेन क्रमादिप्रवदति ॥ ८० ॥ अनोः कर्म्मण्यसति । ३ । ३ । ८१ । व्यक्तवाचामर्थे वर्त्तमानादनुपूर्वादः कर्म्मण्यसति कर्त्तयत्मनेपदं स्यात् । अनुवदते चैत्रोमैत्रस्य । कर्मण्य सतीति किम् । उक्तमनुवदति । व्यक्तवाचामित्येव । अनुवदति वीणा ॥ ८१ ॥ 1 ज्ञः । ३ । ३ । ८२ । जानातेः कर्म्मण्यसति कर्त्तर्यात्मनेपदं स्यात् । सर्पिषोजानीते । कर्म्मण्यसतीत्येव । तैलं सप्पिषोजानाति ॥ ८२ ॥ 1 उपात्स्थः। ३ । ३ । ८३ । अतः कर्म्मण्यसति कर्त्तर्यात्मनेपदं स्यात् । योगे योगे उपतिष्ठते । कर्मण्यसतीत्येव । राजानमुपतिष्ठति ॥ ८३ ॥ समोगमृच्छिप्रच्छिश्रुवित्स्वरत्यर्त्ति दृशः । ३ । ३ । ८४ । संपूर्वेभ्य एभ्यः कर्म्मण्यसति कर्त्तर्यात्मनेपदं स्यात् । सङ्गच्छते । समृच्छिष्यते । संपृच्छते । संशृणुते । संवित्ते । संखरते । समृच्छते । समियते । संपश्यते । कर्मण्यसतीत्येव । सङ्गच्छति मैत्रम् ॥ ८४ ॥ वेः कृगः शब्दे चानाशे । ३ । ३ । ८५ । अनाशार्थाद्विपूर्वात्कृगः कर्मण्यसति शब्दे च कर्मणि कर्त्तर्यारमनेपदं स्यात् । विकुर्वते सैन्धवाः । क्रोष्टा विकुरुते स्वरान् । शब्देचेति किम् । विकरोति मृदम् । अनाशइति किम् । विकरोत्यध्यायम् ॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy