________________
१८६
हैमशन्दानुशासनस्य गन्धनावक्षेपसेवासाहसप्रतियत्न
प्रकथनोपयोगे।३।३। ७६। एतदर्थात् कृगः कर्त्तर्यात्मनेपदं स्यात् । गन्धनं द्रोहेण परदोषोद्घटनम्। उत्कुरुते । अवक्षेपः कुत्सनम्। दुर्वृत्तानवकुरुते । सेवा। महामात्रानुप. कुरुते । साहसमविमृश्यप्रवृत्तिः। परदारान् प्रकुरुते। प्रतियत्न गुणान्तराधानम् । एधोदकस्योपस्कुरुते । प्रकथनम्। जनापवादान प्रकुरुते। उपयोगो धर्मादौ विनियोगः। शतं प्रकुरुते ॥७६ ॥
अधेः प्रसहने ।३।३। ७७ । अधेः परात्कृगः प्रसहनार्थात्कर्त्तर्यात्मनेपदं स्यात् । प्रसहनं पराभिभवः परेण पराजयो वा । तं हाधिचक्रे । प्रसहनइति किम् । तमधिकरोति ॥ ७७॥ दीप्तिज्ञानयत्नविमत्युपसंभाषोपमन्त्रणे
वदः।३।३। ७८ । एष्वर्थेषु गम्येषु वदः कर्तर्यात्मनेपदं स्यात् । दीप्तिर्भासनम् । वदते विद्वान् स्यावादे । ज्ञाने । वदते धीमांस्तत्वार्थे । यत्ने । तपसि वदते । नानामतिर्विमतिः । धर्मे विवदन्ते। उपसंभाष उसान्त्वनम् । कर्मकरानुपवदते । उपमन्त्रणं रहस्युपच्छन्दनम् । कुलभार्यामुपवदते ॥७॥ व्यक्तवाचां सहोती।३।३। ७९।
व्यक्तवाचो रूढ्या मनुष्यादयस्तेषां संभूयोच्चारणार्थाद्वदः कर्त्तर्यात्मनेपदं स्यात् । संप्रवदन्ते ग्राम्याः।व्यक्तवाचामिति किम् । संप्रवदन्ति शुकाः । सहोक्ताविति किम् । चैत्रेणोक्ते मैत्रो वदति ॥ ७९ ॥
विवादे वा । ३।३। ८०।