SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलधुवृत्तिः। १८५ निह्नवोऽपलापस्तदृत्तेज्ञःकर्त्तर्यात्मनेपदं स्यात् । शतमपजानीते॥६॥ संप्रतेरस्मृतौ। ३।३।६९। स्मृतेरन्यार्थात्संप्रतिभ्यां परात् ज्ञः कर्त्तर्यात्मनेपदं स्यात् । शतं संजानीते । प्रतिजानीते । अस्मृताविति किम्। मातुः संजानाति ॥६९ ।। अननोः सनः ।३।३ । ७० । सन्नन्ताज्ज्ञः कर्त्तर्यात्मनेपदं स्यात् नत्वनोः परात् । धर्म जिज्ञासते । अननोरिति किम् । धर्ममनुजिज्ञासति ॥ ७० ॥ श्रुवोऽनामतेः।३।३।७१ । सन्नन्ताच्छृणोतेः कर्तर्यात्मनेपदं स्यात् नत्वाप्रतिभ्यां परात् । शुश्रूषते गुरून् । अनामतेरिति किम् । आशुश्रूषति । प्रतिशुश्रूषति ॥७१॥ स्मृदृशः।३।३।७२। आभ्यां सन्नन्ताभ्यां कर्त्तर्यात्मनेपदं स्यात् । सुस्मूर्षते । दिदृक्षते॥७२॥ शकोजिज्ञासायाम्। ३ । ३।७३। शकोज्ञानानुसंहितार्थात्सन्नन्तात्कर्त्तर्यात्मनेपदं स्यात्। विद्यां शिक्षते । जिज्ञासायामिति किम् । शिक्षति ॥७३॥ प्राग्वत् । ३।३।७४ । सनः पूर्वोयोधातुस्तस्मादिव सन्नन्तात्कर्त्तर्यात्मनेपदं स्यात्। शिशयिषते । अश्वेन संचिचरिषते ॥ ७४ ॥ . आमः कृगः।३।३। ७५ । आमः परादनुप्रयुक्तात् कृग आम एव प्राग् योधातुस्तस्मादिव कर्त्तर्यात्मनेपदं स्यात् । भवति न भवति चेति विधिनिषेधावतिदिश्यते । ईहांचके । बिभराञ्चकार । कृग इति किम् । ईक्षामास ॥७५॥ २४
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy