SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ १८४ हैमशब्दानुशासनस्य वा लिप्सायाम् । ३।३।६१। उपातस्थोलिप्सायां गम्यमानायां कर्तर्यात्मनेपदं स्याद्वा । भिक्षुतृकुलमुपतिष्ठते । उपतिष्ठति वा ॥ ६१ ॥ उदोऽनूढेहे । ३।३। ६२ । ___ अनूर्द्धा याचेष्टा तदर्थादुत्पूर्वात् स्थः कर्तर्यात्मनेपदं स्यात् । मुक्तावुत्तिष्ठते । अनू?तिकिम् । आसनादुत्तिष्ठति । ईहेतिकिम् । ग्रामाच्छतमुत्तिष्ठति ॥ ६२ ॥ संविप्रावात् । ३।३। ६३ । एभ्यः परात् स्थः कर्तर्यात्मनेपदं स्यात् । संतिष्ठते । वितिष्ठते । प्रतिष्ठते । अवतिष्ठते ॥ ६३ ॥ ज्ञीप्सास्थेये।३।३।६४। ज्ञीप्सा आत्मप्रकाशनम् । स्थेयः सभ्यः। ज्ञीप्सायां स्थेयविषयार्थे च वर्तमानात स्थः कर्त्तर्यात्मनेपदं स्यात् । तिष्ठते कन्या च्छात्रेभ्यः । त्वयितिष्ठते विवादः ॥ ६४ ॥ प्रतिज्ञायाम् । ३।३।६५ । अभ्युपगमार्थात् स्थः कर्तर्यात्मनेपदं स्यात् । नित्यं शब्दमातिष्ठते॥६५।। समोगिरः। ३।३।६६ । संपूर्वागिरः प्रतिज्ञार्थात् कर्तर्यात्मनेपदं स्यात् । स्यादादं सङ्गिरते ॥ ६६॥ अवात् । ३।३।६७। अबागिरः कर्त्तर्यात्मनेपदं स्यात् । अवगिरते ॥ ६७ ॥ निहवे ज्ञः।३।३।६८।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy