SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः। १८३ नुप्रच्छः ।३।३।५४। . आयूर्वान्नौतेः प्रच्छेश्च कर्त्तर्यात्मनेपदं स्यात् । आनुते शृगालः । आपृच्छते गुरून् ॥ ५४ ॥ गमः क्षान्तौ।३।३।५५ । कालहरणार्थाद्गमयतेरापर्वात्कतर्यात्मनेपदं स्यात् । आगमयते गुरुम् । कश्चित्कालं प्रतीक्षते । क्षान्ताविति किम् । विद्यामागमयति ॥ हः स्पर्द्ध ।३।३।५६ । आयूवात ह्वयतेः स्पर्दै गम्ये कर्त्तर्यात्मनेपदं स्यात्।मल्लोमल्लमाह्वयते। स्पर्द्धइति किस् । गागाह्वयति ॥ ५६ ॥ - सन्निवः । ३।३।५७। एभ्योहयतेः कर्तर्यात्मनेपदं स्यात् । संह्वयते ।निह्वयते । विह्वयते॥ ५७॥ उपात् । ३।३।५८ । उपात ह्वयतेः कर्त्तर्यात्मनेपदं स्यात् । उपवयते ॥ ५८॥ यमः स्वीकारे।३।३।५९। उपाद्यमेः स्वीकारार्थात्कतर्यात्मनेपदं स्यात् । कन्यामुपयच्छते। उपा. यस्त महास्त्राणि । च्विनिर्देशइति किम् । शाटकानुपयच्छति ॥ ५९॥ देवार्चामैत्रीसङ्गमपथिकर्तृकमन्त्रकरणे स्थः।३।३।६० । एतदर्थादुपपूर्वात्तिष्ठतेः कर्त्तर्यात्मनेपदं स्यात् । देवार्चा। जिनेन्द्रमु-. पतिष्ठते । मैत्री। रथिकानुपतिष्ठते । सङ्गमः। यमुनागंगामुपतिष्ठते । पन्थाः कर्ता यस्य तत्र । श्रुघ्नमुपतिष्ठः पन्थाः। मन्त्रः करणं यस्य। ऐन्द्रय गाईपत्यमुपतिष्ठते ॥६०॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy