________________
१८२ .
हैमशब्दानुशासनस्य वृत्तिसर्गतायने । ३।३। ४८ । - वृत्तिरप्रतिबन्धः, सर्ग उत्साहा, तायनं स्फीतता, एतद्वृत्तेः क्रमः कर्तर्यात्मनेपदं स्यात् । शास्त्रे ऽस्य क्रमते बुद्धिः । सूत्राय क्रमते । क्रमन्ते ऽस्मिन्योगाः ॥४-1
परोपात् । ३।३। ४९ । आम्यामेव परात् क्रमवृत्त्याद्यर्थात्कर्त्तर्यात्मनेपदं स्यात्। पराक्रमते । उपक्रमते । परोपादिति किम् । अनुक्रामति। वृत्त्यादावित्येव । पराक्रामति ॥ ४९॥
वेः स्वार्थे । ३।३।५० । ____ स्वार्थः पादविक्षेपस्तदर्थाधिपूर्वाक्रमः कर्त्तर्यात्मनेपदं स्यात् । साधु विक्रमते गजः । स्वार्थइति किम् । गजेन विक्रामति ॥ ५० ॥
प्रोपादारम्भे ।३।३। ५१ । आरम्भार्थात्प्रोपाभ्यां परात्क्रमः कर्तर्यात्मनेपदं स्यात् । प्रक्रमते । उपक्रमते भोक्तुम् । आरम्भइति किम् । प्रक्रामति । यातीत्यर्थः॥ ५१॥
आङो ज्योतिरुद्गमे ।३।३।५२ ।
आङः परात्कमेश्चन्द्रायुगमार्थात्कर्तर्यात्मनेपदं स्यात् । आकमते चन्द्रः सूर्यो वा । ज्योतिरुद्गमइति किम् । आक्रामति बटुः कुतुपम् । धूम आक्रामति ॥ ५२ ॥
दागोऽस्वास्यप्रसारविकाशे।३।३।५३॥ . स्वास्यप्रसारविकाशाभ्यामन्यार्थीदाङ् पूर्वाद्दागः कर्तर्यात्मनेपदं स्यात् । विद्यामादत्ते । स्वास्यादिवर्जनं किम् । उष्ट्रोमुखं व्याददाति । कूलं व्याददाति ॥ ५३ ॥