SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः । १८१. विनयते । कर्तृस्थेति किम् । चैत्रो मैत्रस्य मन्युं विनयति । अमूर्त्तेति किम् । गडुं विनयति | आप्येति किम् । बुद्धया विनयति ॥ ४० ॥ शदेः शिति । ३ । ३ । ४१ । शिद्विषयाच्छदेः कर्त्तर्यात्मनेपदं स्यात् । शीयते । शितीति किम् । शत्स्यति ॥ ४१ ॥ म्रियतेरद्यतन्याशिषि च | ३ | ३ | ४२ | अतोऽद्यतन्याशीर्विषयाच्छिद्विषयाच्च कर्त्तर्यात्मनेपदं स्यात् । अमृत । मृषीष्ट । म्रियते । अद्यतन्याशिषिचेति किम् । ममार ॥ ४२ ॥ क्यङ्क्षो नवा । ३ । ३ । ४३ । क्यङ्घन्तात्कर्त्तर्यात्मनेपदं वा स्यात् । निद्रायति । निद्रायते ॥ युद्धयोऽद्यतन्याम् । ३ । ३ । ४४ । तादिभ्योऽद्यतनीविषये कर्त्तर्यात्मनेपदं वा स्यात् । व्यद्युतत् । व्यद्योतिष्ट । अरुचत् । अरोचिष्ट | अद्यतन्यामिति किम् । द्योतते ॥४४॥ वृद्भयः स्यसनोः । ३ । ३ । ४५ । वृदादेः पञ्चतः स्यादौ प्रत्यये सनि च विषये कर्त्तर्यात्मनेपदं वा स्यात् । वर्त्स्यति । वर्त्तिष्यते । विवृत्सति । विवर्त्तिषत । स्यसनोरिति किम् | वर्त्तते ।। ४५ । कृपः श्वस्तन्याम् । ३ । ३ । ४६ । कृपः श्वस्तनीविषये कर्त्तर्यात्मनेपदं वा स्यात् । कल्तासि । कल्पितासे ॥ ४६ ॥ क्रमोऽनुपसर्गात् । ३ । ३ । ४७ । अविद्यमानोपसर्गात्क्रमतेःकर्त्तर्यात्मनेपदं वा स्यात् । क्रमते । क्रामति । अनुपसर्गादिति किम् । अनुक्रामति ॥ ४७ ॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy