SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ हैमशब्दानुशासनस्य शप उपलम्भने । ३ । ३ । ३५ । उपलम्भनं प्रकाशनं शपथो वा तदर्थाच्छपतेः कर्त्तयत्मनेपदं स्यात् । मैत्राय शपते । उपलम्भनइति किम् । मैत्रं शपति ॥ ३५ ॥ आशिषि नाथः । ३ । ३ । ३६ । आशीरर्थादेव नाथेः कर्त्तर्यात्मनेपदं स्यात् । सर्पिषोनाथते । आशिषीति किम् । मधु नाथति ॥ ३६ ॥ भुनजोऽत्राणे । ३ । ३ । ३७। पालनादन्यार्थाद् भुनक्तेः कर्त्तर्यात्मनेपदं स्यात् । ओदनं भुङ्क्ते । भुनजइति किम् । ओष्ठौ निर्भुजति । अत्राणइति किम् । पृथ्वीं भुनक्ति ॥ ३७ ॥ १८० हृगोगतताच्छील्ये । ३ । ३ । ३८ । गतं सादृश्यं हृगोगतताच्छील्यार्थात्कर्त्तर्यात्मनेपदं स्यात् । पैत्रकमश्वा अनुहरन्ते । पितुरनुहरन्ते । गतइति किम् । पितुर्हरति । चोरयतीत्यर्थः । ताच्छील्यादिति किम् । नटो राममनुहरति ॥ ३८ ॥ पूजाचार्यकमुत्युतक्षेपज्ञानविगणनव्यये नियः । ३ । ३ । ३९ । पूजादिषु गम्येषु नियः कर्त्तर्यात्मनेपदं स्यात् । नयते विद्वान् स्याद्वादे | माणवकमुपनयते । कर्मकरानुपनयते । शिशुमुदानयते । नयते तत्रार्थे । मद्राः कारं विनयन्ते । शतं विनयते । एष्विति किम् । अजां नयति ग्रामम् ।। ३९ ।। कर्तृस्थामूर्त्ताप्यात् | ३ | ३ | ४० । कर्तृस्थममूर्त्तं कर्म यस्य तस्मान्नियः कर्त्तर्यात्मनेपदं स्यात् । श्रम
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy