SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः । परावेर्जेः । ३ । ३ ।२८। आभ्यां पराजयतेः कर्त्तर्यात्मनेपदं स्यात् । पराजयते । विजयते । उपसर्गाभ्यामित्येत्र । बहु विजयति वनम् ॥ २८ ॥ समः क्ष्णोः । ३ । ३ । २९। १७९ समः परात् क्ष्णौतेः कर्त्तर्यात्मनेपदं स्यात् । संक्ष्णुते शस्त्रम् । समइति किम् । क्ष्णौति । उपसर्गादित्येव । आयसं क्ष्णौति ॥ २९ ॥ अपस्किरः । ३ । ३ । ३० । अपात्किरतेः सस्सदकात्कर्त्तर्यात्मनेपदं स्यात् । अपस्किरते वृषमोहृष्टः । सस्सदनिर्देशः किम् । अपकिरति । अपेति किम् । उपस्किरति उदश्चरः साप्यात् । ३ । ३ । ३१ । उत्पूर्वाच्चरेः सकर्मकात्कर्त्तयत्मनेपदं स्यात् । मार्गमुच्चरते । साप्यादिति किम् । भ्रम उच्चरति ॥ ३१ ॥ समस्तृतीयया । ३ । ३ । ३२ । सम्पूवीच्चरे स्तृतीयान्तेन योगे कर्त्तर्यात्मनेपदं स्यात् । अश्वेनसञ्चरते । तृतीयेति किम् । उभौ लोकौ सञ्चरसि ॥ ३२ ॥ क्रीडोऽकूजने । ३ । ३ । ३३ । कूजनमव्यक्तः शब्दस्ततोऽन्यार्थात्संपूर्वात्क्रीडतेः कर्त्तर्यात्मनेपदं स्यात् । संक्रीडते । सम इत्येव । क्रीडति । अकूजनइति किम | संत्री - डन्त्यऽनांसि ॥ ३३ ॥ अन्वाङ्परेः । ३ । ३ । ३४ । एभ्यः पराक्रीडतेः कर्त्तर्यात्मनेपदं स्यात् । अनुक्रीडते । आत्रीडते । परिक्रीडते ॥ ३४ ॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy