SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ हैमशग्दानुशासनस्य क्रियाव्यतिहारेऽगतिहिंसाशब्दार्थहसोह वहश्चानन्योऽन्यार्थे ।३।३।२३। अन्यचिकीर्षितायाः क्रियाया अन्येन हरणं करणं क्रियाव्यतिहारः तदर्थाद्गतिहिंसाशब्दार्थहस्वर्जाद्धातोहवहिभ्यां च कर्तर्यात्मनेपदं स्यात् । नत्वन्योन्येतरेतरपरस्परशब्दयोगे । व्यतिलुनते । व्यतिहरन्ते । व्यतिवहन्ते मारम् । क्रियति किम् । द्रव्यव्यतिहारे मामत् । चैत्रस्य धान्यं व्यतिलुनन्ति । गत्यर्थादिवर्जनं किम् । व्यतिसर्पन्ति । व्यतिहिंसन्ति । व्यतिजल्पन्ति । व्यतिहसन्ति । अनन्योन्यार्थइति किम् । परस्परस्य व्यतिलुनन्ति । कतरीत्येव । तेन भावकर्मणोः पूर्वेणैव गत्यादिभ्योपि स्यात् । व्यतिगम्यन्ते ग्रामाः ॥ २३ ॥ निविशः।३।३।२४। नेर्विशः कर्तर्यात्मनेपदं स्यात् । निविशते ॥ २४ ॥ उपसर्गादस्योहो वा।३।३।२५। उपसर्गात्पराभ्यामस्यत्यूहिभ्यां कर्त्तर्यात्मनेपदं वा स्यात् । विपर्य: स्यते । विपर्यस्यति । समूहते । समूहति ॥२५॥ उत्स्वराधुजेरयज्ञतत्पात्रे ।३।३।२६। उदः स्वरान्ताचोपसर्गात्परायुनक्तेः कर्तर्यात्मनेपदं स्यात् नचेद्यज्ञे यत्तत्पात्रं तद्विषयोयुज्यर्थः स्यात् । उद्युङ्क्ते । उपयुङ्क्ते । उत्स्वरादिति किम् । संयुनक्ति । अयज्ञतत्पात्रइति किम् । द्वन्दं यज्ञपात्राणि प्रयुनक्ति ॥ २६ ॥ परिव्यवाक्रियः।३।३।२७। एभ्य उपसर्गेभ्यः परात् क्रीणातेः कर्तर्यात्मनेपदं स्यात् । परिक्रीप विकीणीते । अवक्रीणीते । उपसर्गादित्येव । उपरिकीणाति ॥२॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy