SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः। नवाद्यानि शतृकसू च परस्मैप दम्।३।३।१९। सर्वविभक्तीनामाद्यानि नव नव वचनानि शतृकसू च परस्मैपदानि स्युः । ति । तम् । अन्ति । सिन् । थस् । थ । मिव । वस् । मस् । एवं सर्वासु ॥ १९॥ पराणि कानानशौ चात्मनेपदम्।३।३।२०। · सर्वविभक्तीनां पराणि नव नव वचनानि कानानशौ चात्मनेपपदानि स्युः । ते । आते । अन्ते । से । आथे । ध्वे । ए। वहे। महे । एवं सर्वासु ॥ २० ॥ तत्साप्यानाप्यात्कर्मभावे कृत्यक्तखल श्चि । ३।३।२१ । तदात्मनेपदं कृत्यक्तखलाश्च प्रत्ययाः सकर्मकाद्धातोः कर्मणि अकर्मकादविवक्षितकर्मकाच भावे स्युः। क्रियते कटश्चैत्रेण । चक्राणः । क्रियमाणः । भूयते त्वया। भूयमानम्। क्रियते । मृदु पच्यते । कार्यः । कर्तव्यः। करणीयः। देयः। कृत्यः कटस्त्वया। शयितव्यम् । शयनीयम् । शेयम् । कार्यम् । कर्त्तव्यम् । करणीयम्। देयम् । कृत्यम् । त्वया कृतः कटः। शयितम् । कृतं त्वया। सुकरः कटस्त्वया। सुशयं, सुकरं त्वया। सुकटं कराणि वीरणानि । ईषदाढयम्भवं भवता । सुज्ञानं तत्त्वं मुनिना। सुग्लानं दीनेन । मासआस्यते । मासमास्यते ॥ २१॥ इङितः कर्तरि । ३।३।२२। इदितो डितश्च धातोः कर्तर्यात्मनेपदं स्यात् । एधते । एधमानः । शेते । शयानः ॥ २२॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy