SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ मोपलवालिका राजन्तेभ्यो लोहितादिभ्यश्च कर्तृभ्यश्व्यर्थे क्या पित् स्यात् । पटपटायति । पटपटायते । लोहितायति । लोहितायते । कर्तुरित्येव । अपटपटा पटपटा करोति । व्यर्थ इत्येव । लोहितो भवति ॥ ३०॥ कष्टकक्षकृच्छ्रसत्रगहनाय पाप क्रमणे।३।४।३१। एभ्यश्चतुर्थ्यन्तेभ्यः पापवृत्तिभ्यः क्रमणेऽर्थे क्यङ् स्यात् । कष्टायते। कक्षायते । कृच्छ्रायते । सत्रायते । गहनायते । चतुर्थीति किम् । रिपुः कष्टं कामति । पाप इति किम् । कष्टाय तपसे कामति ॥ ३१॥ रोमन्थाद्वयाप्यादुच्चर्बणे।३।४।३२। अभ्यवहृतं द्रव्यं रोमन्थ उनीर्य चर्बणमुचर्वणमस्मिन्नर्थे रोमन्थाकर्मणः क्यङ् वा स्यात् । रोमन्थायते गौः । उच्चर्बण इति किम् । कीटो रोमन्थं वर्त्तयति ॥ ३२ ॥ फेनोमबाष्पधूमादुद्वमने ।३।४।३३। एभ्यः कर्मभ्य उद्घमनेऽर्थे क्यङ् वा स्यात् । फेनायते । ऊष्मायते । बाष्पायते । धूमायते ॥ ३३ ॥ सुखादेरनुभवे । ३।४।३४। साक्षात्कारेऽर्थे सुखादेः कर्मणः क्यङ् वा स्यात् । सुखायते । दुःखायते ॥ ३४॥ शब्दादेः कृतौ वा।३।४।३५। एभ्यः कर्मभ्यः कृतावर्थे क्यङ्वा स्यात् । शब्दायते । वैरायते । पक्षे णिच् । शन्दयति । वैश्यति ॥ ३५॥ तपसः क्यन् । ३।४।२६। ।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy