________________
हैमशब्दानुशासनस्य तौमुमोर्व्यञ्जने स्वौ ।१।३।१४। मोर्वागमस्य पदान्तस्थस्य च मस्य व्यञ्जने परे तस्यैव स्वौ तावऽनुस्वाराऽनुनासिकौ क्रमेण स्याताम् । चंक्रम्यते। चङ्कभ्यते।वम्यते। ववम्यते । त्वंकरोषि । त्वङ्करोषि । कंवः । कचः ॥१४॥
मनयवलपरे हे।१।३।१५। मनयवलपरे हे पदान्तस्थस्य मस्याऽनुस्वाराऽनुनासिको खौ क्रमात्स्याताम् । किंमलयति । किम्मलयति । किंते । किन्हते। किंह्यः। किव्हाः किंवलयति । किङलयति । किंहादयते । किल्हाँदयते ॥ १५ ॥
सम्राट् ।१।३।१६। समो मस्य राजौ विबन्ते ऽनुस्वाराभावः स्यात् । सम्राट्।सम्राजौ॥१६॥ लोः कटावन्तौ शिटि नवा ।१।३।१७।
पदान्तस्थयो ङणयोः शिटिपरे यथासंख्यं कटावन्तौ वा स्याताम् । प्राङ्छेते। प्राशेते। प्राशेते।सुगण्छेते। सुगण्टशेते । सुगणशेत॥१७॥
इनः सः त्सोऽश्चः।१।३।१८। पदान्तस्थाभ्यां डनाभ्यां परस्य सस्य त्स इति तादिः सो वा स्यात् । अश्व श्वाऽवयवश्चेत् सो न स्यात् । षड्त्सीदन्ति । षट्सीदन्ति । भवान्त्साधुः । भवान्साधुः । अश्व इति किम् षट्श्च्योतति ॥१८॥
नः शिञ्च ।१।३।१९। पदान्तस्थस्य नस्य शे परेञ्च वा स्यात् । अश्वः भवाञ्च्छरः। भवाउच्शूरः। भवाञ्शूरः । अश्व इत्येव । भवाश्च्योतति ॥ १९॥
अतोऽति रोरुः ।१।३।२०। आत्परस्य पदान्तस्थस्य रो रति परे उनित्यं स्यात् । कोर्थः ॥२०॥