SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलधुवृत्तिः। पदान्तस्थस्य प्रशान्वर्ज शब्दसम्बन्धिनो नस्य चटतेषु सद्वितीयेषु अधुट्परेषु शपसा यथासंख्यं स्युः । अनुसारानुनासिकौ चागमादेशौ पूर्वस्य क्रमेण स्याताम् । भवांश्चरः। भवाँश्चरः। भवांश्छ्यति ।भवाँग्छयति भवांष्टकः । भवाष्टकः । भवाष्टकारः। भवाँष्ठकारः। भवांस्तनुः । भवाँस्तनुः । भवांस्थुडति । भवाँस्थुडति । अप्रशान् इति किम् । प्रशाश्चरः । अधुट्पर इति किम भवान्त्सरुकः ॥ ८॥ पुमो ऽशिट्यघोषेऽरव्यागिरः।१।३।९। पुमितिपुंसः संयोगलुक्यऽनुकरणं अधुट्परे अघोषे शिख्यागिवर्जे परे पुमित्येतस्य रः स्यात् । अनुस्वारानुनासिकौ च पूर्वस्य । पुंस्कामा । (स्कामा । अशिटीतिकिम् । पुंशिरः । अघोष इतिकिम् । पुंदासः अख्यागीतिकिम् । पुंख्यातः । अधुदपरइत्येव पुंक्षारः॥९॥ ननः पेषुवा ।१।३।१०। नृनिति शसन्तस्यानुकरणम् । ननः पे परे रो वा स्यात् । अनुस्वारानुनासिकौ च पूर्वस्य । पाहिं । नॅ पाहि । नृन्पाहि ॥१०॥ द्विः कानः कानिसः।१।३।११। कानः किमः शसन्तस्यानुकरणम्। द्विरुक्तस्य कानि परे सः स्यात् । अनुस्वारानुनासिकौ च पूर्वस्य । कांस्कान काँस्कान् । द्विरितिकिम् । कान्कान पश्यति ॥ ११॥ स्सटि समः।१।३।१२। समः स्सटि परे सः स्यात् । अनुस्वारानुनासिकौ च पूर्वस्य । संस्स्कर्ता। सँस्स्कर्ता । स्सटीतिकिम् । संकृतिः ॥ १२॥ लुक् ।१।३।१३। समः स्मटि परे लुक् स्यात् । सस्कर्ता ॥ १३ ॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy