SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः ॥ १७-१ गादावुत्तरपदे इदङ्किमौ यथासङ्ख्यामीत्कीरूपौ स्याताम् । ईदृक् । ईदृशः । ईदृक्षः । कीदृक् । कीदृशः । कीदृक्षः ॥ १५३॥ अनञः क्वोयप् । ३ । २ । १५४ । नञोऽन्यस्मादव्ययात्पूर्वपदात्परं यदुत्तरपदं तदवयवस्य क्त्वोयफ् स्यात् । प्रकृत्य । अनञइति किम् । अकृत्वा । परमकृत्वा । उत्तरपदस्येत्येव । अलंकृत्वा ॥ १५४ ॥ पृषोदरादयः । ३ । २ । १५५ । एते साधवः स्युः । पृषोदरः । बलाहकः ।। १५५ ॥ वावाप्योस्तनिक्रीधाग्नहोर्वपी । ३।२।१५६ | अवस्योपसर्गस्य तनिक्रियोरपेश्च धान्नहोर्यथासङ्ख्यं वपी वा स्याताम् । वतंसः । अवतंसः। वक्रयः । अवक्रयः । पिहितम् । अपिहितम् । पिनद्धम् । अपिनम् || १५६ ॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां सिडहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ तृतीयस्याध्यायस्य द्वितीयः पादः समाप्तः ।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy