SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ तते हिते चोत्तरपदे समो लुग् वा स्यात् । सततम् । सन्ततम् ।सहि तम् । संहितम् ॥ १३९ ॥ तुमश्च मनःकामे । ३।२।१४० । तुम्समोर्मनसि कामे चोत्तरपदे लुक् स्यात् । भोक्तुमनाम मन्नुकामः। समनाः । सकामः ॥ १४० ॥ मांसस्यानडघनि पचि नवा।३।२।१४१ । अनड घअन्ते पचावुत्तरपदे मांसस्य लुग्वा स्यात् । मांस्पचनम् । मांसपचनम् । मांस्पाकः । मांसपाकः ॥ १४१॥ दिशब्दात्तीरस्य तारः।३।२।१४२। अस्मात्परस्य तीरस्योत्तरपदस्य तारो वा स्यात् । दक्षिणतारम् । दक्षिणतीरम् ॥ १४२॥ सहस्य सोऽन्यार्थे ।३।२।१४३। उत्तरपदे परे बहुव्रीही सहस्य सो वा स्यात् । सपुत्रः । सहपुत्रः । अन्यार्थइति किम् । सहजः ॥ १४३ ॥ नाम्नि । ३।२।१४४ । उत्तरपदे परे बहुव्रीहौ सहस्व सः संज्ञायां स्यात् । साश्वत्थं वनम् । अन्यार्थइत्येव । सहदेवः कुरुः ॥ १४४ ॥ अदृश्याधिके। ३।२।१४५। अदृश्यं परोक्षमधिकमधिरूढं तदर्थयोरुत्तरपदयोबहनीही सहस्य सः स्यात् । साग्निः कपोतः । सद्रोणा खारी ॥ १४५ ॥ अकालेऽव्ययीभावे ।३।२।१४६ । अकालवाचिन्युत्तरपदे सहस्याव्ययीभावे सा स्यात् । सबम
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy