________________
स्वोपालपुकृतिः। सहसमः सधिसमि।३।२।१२३ ।
अनयोः स्थाने किबन्ते अञ्चावुत्तरपदे यथासंख्यं सधिसमी स्याताम् । सध्यङ् । सम्यङ् । क्वयञ्चावित्येव । सहाञ्चनम् ॥ १२३ ॥
तिरसस्तियति । ३।२।१२४।
अकारादौ किबन्तेऽञ्चावुत्तरपदे तिरसस्तिरिः स्यात् । तिर्यङ् । अतीति किम् । तिरश्वः ।। १२४ ॥
नजत् । ३।२।१२५ । उत्तरपदे परे नञ् अः स्यात् । अचौरः पन्थाः । उत्तरपद इत्येव । न मुङ्क्ते ॥ १२५ ।।
त्यादौ क्षेपे।३।२।१२६ । त्याद्यन्ते पदे परे निन्दायां गम्यमानायां न अ स्यात् । अपपसि त्वं जाल्म । क्षेपइति किम् । न पचति चैत्रः ॥ २६ ॥
नगोऽप्राणिनि वा । ३।२।१२७। . अप्राणिन्यर्थे नगो वा निपात्यते । नगः, अगः, गिरिः। अप्राणिनीति किम् । अगोऽयं शीतेन ॥ १२७॥
नखादयः । ३।२।१२८ । एते अकृताकाराद्यादेशा निपात्यन्ते । नखः । नासत्यः ॥ १२८ ॥
अन् स्वरे ।३।२।१२९ । स्वरादावुत्तरपदे नञोऽन स्यात् । अनन्तो जिनः ॥ १२९ । कोः कत्तत्पुरुषे । ३।२।१३० । स्वरादावुत्तरपदे कोस्तत्पुरुषे कद् स्यात् । कदवः । तत्पुरुष इति किम् । फूट्रो देशः। स्वरइत्येव । कुबाह्मणः ॥ १३७ ११