SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ स्वोपालासः। श्च । ३।२।११। । स्वरान्तस्यानव्ययस्यारुषश्र खित्प्रत्ययान्ते उत्तरपदे मोऽन्तोयथासम्भवं हस्वादशश्च स्यात्। शंमन्यः। कालिंमन्या ।अरुन्तदः । खितीति किम् । ज्ञमानी । अनव्ययस्योति किम् । दोषामन्यमहः ॥ १११॥ सत्यागदास्तोः कारे। ३।२।११२ । एभ्यः कारे उत्तरपदे मोऽन्तः स्यात् । सत्यङ्कारः। अगदवारः । अस्तुङ्कारः ॥ ११२॥ लोकम्पृणमध्यन्दिनाऽनभ्यास मित्यम् । ३।२।११३ । एते कृतपूर्वपदमोऽन्ता निपात्यन्ते । लोकम्पृणः । मध्यन्दिनम् । अनभ्यासमित्यः ॥ ११३॥ भ्राष्ट्राग्नेरिन्धे । ३।२।११४ । आभ्यामिन्धे उत्तरपदे मोऽन्तःस्यात् । भ्राष्ट्रमिन्धः। अमिमिन्धः ।। अगिलाद्गिलगिलगिलयोः।३।२।११५॥ . गिलान्तवर्जात् पूर्वपदात्परोगिले गिलगिले चोत्तरपदे मोऽन्तः स्यात् । तिमिलिग तिमिनिलगिलः। अगिलादिति किम् । तिमिङ्गिलगिलः ॥ ११५॥ भद्रोष्णात्करणे।३।२।११६ । आभ्यां परः करणे उत्तरपदे मोऽन्तः स्यात् । भद्रंकरणम् । उष्णंकरणम् ॥ ११९ ॥ न वाखित्कृदन्ते रात्रेः ।३।२।११७।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy