SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ ईमशब्दानुशासनस्य उदकस्यासंयुक्त व्यञ्जनादौ पूर्यमाणार्थे उत्तरपदे उदो वा स्यात् । उदकुम्भः । उदककुम्भः । व्यञ्जनइति किम् । उदकामत्रम् | एकेति किम् । उदकस्थालम् । पूर्यइति किम् । उदकदेशः ॥ १०५ ॥ मन्थौदनसक्तुविन्दुवज्रभारहारवीवधगाहे १५४ वा । ३ । २ । १०६ । एषूत्तरपदेषु उदकस्योदो वा स्यात् । उदमन्थः । उदकमन्थः। उदौदनः। उदकौदनः । उदक्तः । उदकसक्तः । उदबिन्दुः । उदकविन्दुः । उदवजूः । उदकवज्रः। उदभारः। उदकभारः । उदहारः। उदकहारः । उदवीवधः । उदकवीवधः । उदगाहः । उदकगाहः ॥ १०६॥ नाम्न्युत्तरपदस्य च । ३ । २ । १०७ । उदकस्य पूर्वपदस्योत्तरपदस्य च संज्ञायामुदः स्यात् । उदमेघः । उदवाहः । उदपानम् । उदधिः । लवणोदः । कालोदः ॥ १०७ ॥ ते लुग्वा । ३ । २ । १०८ । संज्ञाविषये पूर्वोत्तरपदे लुग्वा स्यात् । देवदत्तः । देवः । दत्तः ||१०८|| द्वयन्तरनवर्णोपसर्गादप ईप् । ३ । २ । १०९ । द्व्यन्तर्भ्यामवर्णान्तवर्जोपसर्गेभ्यश्च परस्यापउत्तरपदस्य ईपू स्यात् । द्वीपम् । अन्तरीपम् । नीपम् । समीपम् । उपसर्गादेरिति किम् । स्वापः । अनवर्णेति किम् । प्रापम् । परापम् ॥ १०९ ॥ अनोर्देशे उप् । ३ । २ । ११० । अनोः परस्यापोदेशेऽर्थे उप् स्यात् । अनूपोदेश देशइति किम् । अन्वीपं वनम् ॥ ११० ॥ खित्यनव्ययाऽरुषोर्मोऽन्तोहस्व
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy