________________
हैमशब्दानुशासनस्य शीतिबहुत्रीहौ ।३।२।९२ । एषों यथासंख्यमेते पाकशतात् संख्यायामुत्रपदे स्युनत्वशीती बहुव्रीहिविषये च । द्वादश । त्रयोविंशतिः। अष्टात्रिंशत् । प्राक्शतादिति किम् । दिशतम् । त्रिशतम् । अष्टसहस्रम् । अनशीतिबहुव्रीहाविति किम । यशीतिः । द्वित्राः ॥१२॥ चत्वारिंशदादौ वा । ३।२। ९३ । दिव्यष्टानां प्राक्शताचत्वारिंशदादावुत्तरपदे यथासंख्यं दात्रयोऽष्टा वा स्युः अनशीतिबहुव्रीहौ । दाचत्वारिंशत् । द्विचत्वारिंशत् । अयश्चत्वारिंशत् । त्रिचत्वारिंशत् । अष्टाचत्वारिंशत् । अष्टचत्वारिंशत् ॥ ९३ ॥ हृदयस्य हल्लासलेखाण्ये ।३।२।९४|
अस्य लासलेखयोरुत्तरपदयोरणि ये चप्रत्यये हृत् स्यात् । हल्लासः। हल्लेखः । हाईम् । हृद्यः ॥ ९४ ॥ पदः पादस्याज्यातिगोपहते ।३।२।९५।
पादस्याज्यादावुत्तरपदे पदः स्यात् । पदाजिः । पदातिः । पदगः। पदोपहतः ॥ ९५॥ हिमहतिकाषिये पद् । ३।२।९६ ।
हिमादावुत्तरपदे ये च प्रत्यये पादस्थ पद् स्यात् । पदिमम् ।पद्धतिः। पत्काषी । पद्याः, शर्कराः ॥ ९६ ॥
ऋचः शसि ।३।२। ९७। ऋचां पादस्य शादौ शस्प्रत्यये पद् स्यात् । पच्छोगायत्रीं शंसति । चइति किम् । पादशः श्लोकं वक्ति। दिःशपागत् स्यादिशसि न स्यात् । ऋचः पादान पश्य ॥ ९७ ॥