SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलनुवृत्तिः । १५१ गतिकारकयोर्नह्यादौ विवन्ते उत्तरपदे दीर्घः स्यात् । उपानत् । नीवृत् । प्रावृट् । श्वावित् । नीरुक् । ऋतीषट् । परीतत्। जलासट् ॥ ८५ ॥ घञ्युपसर्गस्य बहुलम् । ३ । २ । ८६ । घञन्ते उत्तरपदे उपसर्गस्य बहुलं दीर्घः स्यात् । नीक्लेदः । नीवारः । बाहुलकात् कचिद्रा । प्रतीवेशः । प्रतिवेशः । कचिन्न । विषादः । निषादः ॥ ८६ ॥ नामिनः काशे । ३ । २ । ८७ । नाम्यन्तस्योपसर्गस्याजन्ते काशे उत्तरपदे दीर्घः स्यात् । नीकाशः । वीकाशः । नामिनइति किम् । प्रकाशः ॥ ८७ ॥ दस्ति । ३ । २ । ८८ । दो यस्तादिरादेशस्तस्मिन् परे नाम्यन्तस्योपसर्गस्य दीर्घः स्यात् । नीतम् । वीत्तम् । दइति किम् । वितीर्णम् । तीति किम् । सुदत्तम् ॥ ८८ ॥ अपील्वादेवहे । ३ । २ । ८९ । पील्वादिवर्जस्य नाम्यन्तस्य वहे उत्तरपदे दीर्घः स्यात् । ऋषीवहम् । मुनीवहम् | अपील्वादेरिति किम् | पीलुवहम् । दारुवहम् ॥ ८९ ॥ शुनः । ३ । २ । ९० । अस्योत्तरपदे दीर्घः स्यात् । श्वादन्तः । श्वावराहम् ॥ ९० ॥ एकादश षोडश षोडषोढा षड्ढा । ३ ।२ ।९१ | एकादयोदशादिषु कृतदीर्घत्वादयोनिपात्यन्ते । एकादश । षोडश । षट्दन्ता अस्य षोडन् । षोढा । षड्ढा ॥ ९१ ॥ द्वित्र्यष्टानां द्वात्रयोऽष्टाः प्राक्शतादन २१
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy