SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ हेमशब्दानुशासनस्य अजिरादिवर्जबहुवराणां शरादीनां च मतो प्रत्यये नाम्नि दीर्घः स्यात् । उदुम्बरावती । शरावती । वंशावती । अनजिरादीति किम् । अजिरवती । हिरण्यवती ॥ ७८ ॥ ऋषौ विश्वस्य मित्रे ।३।२।७९। ऋषावर्थे मित्रे उत्तरपदे विश्वस्य नाम्नि दीर्घः स्यात् । विश्वामित्रः॥ नरे।३।२।८०। नरे उत्तरपदे नाम्नि विश्वस्य दीर्घः स्यात् । विश्वानरः कश्चित् ॥ वसुराटोः।३।२।८१ । अनयोरुत्तरपदयोर्विश्वस्य दीर्घः स्यात् । विश्वावसुः । विश्वाराट् ॥ बलच्यपित्रादेः । ३।२।८२। बलच्प्रत्यये पित्रादिवर्जानां दीर्घः स्यात् । आसुतीवलः । अपित्रादेरिति किम् । पितृबलः। मातृबलः ।। ८२ ॥ चितेः कचि । ३।२।८३। . चितेः कचि दीर्घः स्यात् । एकचितीकः ॥ ८३ ॥ खामिचिह्नस्याऽविष्टाऽष्टपञ्चभिन्नछिन्नच्छिद्रश्रुवस्वस्तिकस्य कर्णे।३।२।८४। खामी चिह्नयते येन तद्वाचिनोविष्टादिवर्जस्य कर्णे उत्तरपदे दीर्घः स्यात् । दानाकर्णः पशुः । स्वामिचिह्नस्यति किम् । लम्बकर्णः विष्टादिवर्जनं किम् । विष्टकर्णः । अष्टकर्णः ॥ ८४ ॥ गतिकारकस्य नहिवृतिवृषिव्यधिरुचि_ सहितनौ कौ । ३।२।८५।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy