SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ स्वोपालप्रवृत्तिः। इच्यस्वरे दीर्घआच्च । ३।२। ७२। इजन्तेऽस्वरादावुत्तरपदे पूर्वपदस्य दीर्घत्वं आच स्यात् । मुष्टी मुष्टि । मुष्टामुष्टि । अस्वरइति किम् । अस्यसि ॥ ७२ ॥ हविष्यष्टनः कपाले । ३।२।७३ । हविष्यर्थे कपाले उत्तरपदेऽष्टनोदीर्घः स्यात् । अष्टाकपालं हविः । हविषीति किम् । अष्टकपालम् । कपालइति किम् । अष्टपात्रं हविः॥७३॥ गवि युक्ते ।३।२।७४। युक्तेर्थे गव्युत्तरपदे ऽष्टनोदीर्घः स्यात् । अष्टागवं शकटम् । युक्तइति किम् । अष्टगुश्चैत्रः॥ ७४ ॥ - नाम्नि ।३।२।७५।। अष्टन उत्तरपदे संज्ञायां दीर्घः स्यात् । अष्टापदः कैलाशः । नाम्नीति किम् । अष्टदंष्ट्रः ॥ ७५ ॥ कोटरमिश्रकसिधकपुरगसारिकस्य वणे। ३।२।७६ । एषां कृतणवे वने उत्तरपदे संज्ञायां दीर्घः स्यात् । कोटरावणम् । मिश्रकावणम् । सिध्रकावणम् । पुरगावणम् । सारिकावणम् ॥ ७६ ॥ अञ्जनादीनां गिरौ । ३।२।७७। __एषां गिरावुत्तरपदे नाम्नि दीर्घः स्यात् । अञ्जनागिरिः । कुक्कुटागिरिः ॥ ७७॥ अनजिरादिबहुस्वरशरादीनां मतौ।३।२।७८।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy