SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ हेमशब्दानुशासनस्य गौरिमतिकल्पा । भोगवतिब्रुवा । गौरिमतिचेली । भोगवतिगोत्रा । गौरिमतिमता । भोगवतिहता । नाम्नीति किम् । भोगवतितरा । भोगवत्तरा । भोगवतीतरा ॥ ६५ ॥ नवैकस्वराणाम् । ३ । २ । ६६ । एकस्वरस्य यन्तस्य तरादौ प्रत्यये वादौ चोत्तरपदे स्त्र्येकार्थे वा स्वः स्यात् । स्त्रितरा । स्त्रीतरा । ज्ञितरा । ज्ञीतरा । ज्ञितमा । ज्ञीतमा । शिब्रुवा । ज्ञीब्रुवा । एकस्वराणामिति किम् । कुटीतरा ॥ ६६ ॥ ऊङः । ३ । २ । ६७। १५८ ऊङन्तस्य तरादौ चोत्तरपदे स्त्र्येका वा ह्रस्वः स्यात् । ब्रह्मबन्धुतरा । ब्रह्मबन्धूतरा । कद्रुब्रुवा | कब्रुवा ॥ ६७ ॥ 1 महतः करघासविशिष्टे डाः । ३ । २ । ६८ । करादावुत्तरपदे महतो डा वा स्यात् । महाकरः । महत्करः । महाघासः । महवासः । महाविशिष्टः । महद्विशिष्टः ॥ ६८ ॥ स्त्रियाम् । ३ । २ । ६९ । स्त्रीवृत्तेर्महतः करादावुत्तरपदे नित्यं डाः स्यात् । महाकरः। महाघासः | महाविशिष्टः ॥ ६९॥ जातीयैकार्थेऽच्चेः । ३ । २ । ७० । महतोऽच्चन्तस्य जातीयरि एकार्थ्ये चोत्तरपदे डाः स्यात् । महाजातीयः । महावीरः । जातीयैकार्थ्य इति किम् । महत्तरः । अच्चेरिति किम् । महद्भूता कन्या ॥ ७० ॥ न पुम्वन्निषेधे । ३ । २ । ७१ । महतः पुम्वन्निषेधविषये उत्तरपदे डा न स्यात् । महतीप्रियः ॥ ७१ ॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy