________________
स्वोपज्ञलघुवृत्तिः ।
१५७
एषु समासेषु परतः स्त्री उत्तरपदे पुम्वद्वा स्यात् । मृगक्षीरम् । मृगीक्षीरम् । काकशावः । काकीशावः ॥ ६२ ॥
ऋदुदित्तरतमरूपकल्पब्रुवचेलङ्गोत्रमतहते
वा ह्रस्वश्च । ३ । २ । ६३ ।
ऋदुदित्परतः स्त्री तरादिषु प्रत्ययेषु ब्रुवादौ च स्त्र्येकार्थे उत्तरपदे स्वान्तः पुम्वच्च वा स्यात् । पचन्तितरा । पचत्तरा । पचन्तीतरा । श्रेयसितरा । श्रेयस्तरा । श्रेयसीतरा । पचन्तितमा । पचत्तमा । पचन्तीतमा । श्रेयसितमा । श्रेयस्तमा । श्रेयसीतमा । पचन्तिरूपा । पचद्रूपा । पचन्तीरूपा । विदुषिरूपा । विद्वद्रूपा । विदुषीरूपा । पचन्तिकल्पा । पचत्कल्पा । पचन्तीकल्पा । विदुषिकल्पा । विद्वत्कल्पा । विदुषीकल्पा । श्रेयसिकल्पा | श्रेयस्कल्पा । श्रेयसीकल्पा । पचन्तिबुवा । पचद्भुवा । पचन्ती बुवा | श्रेयसिवा । श्रेयोबुवा । श्रेयसीबुवा । पचन्ति चेली । पचचेली । पचन्तीचेली । श्रेयसिचली । श्रेयश्चली । श्रेयसीचेली । पचन्तिगोत्रा | पचद्गोत्रा । पचन्तीगोत्रा | श्रेयसिगोत्रा । श्रेयोगोत्रा । श्रेयसीगोत्रा । पचन्तिमता । पचन्मता । पचन्तीमता । श्रेयसिमता । श्रेयोमता । श्रेयसी मता । पचन्तिता । पचद्धता । पचन्तीहता । श्रेयसिहता । श्रेयोहता । श्रेयसीहता ॥ ६३ ॥
ङयः। ३ । २ । ६४ ।
ङयन्तायाः परतः स्त्रियास्तरादिषु प्रत्ययेषु ब्रुवादिषु चोत्तरपदेषु एकार्ये हस्वः स्यात् । गौरितरा । गौरितमा । नर्त्तकिरूपा । कुमारिकल्पा । ब्राह्मणिवा । गार्गिचेली । ब्राह्मणिगोत्रा । गार्गिमता । गौरिहता ॥
भोगवद्रौरिमतोर्नाम्नि । ३ । २ । ६५ ।
अनयोर्ज्येन्तयोः संज्ञायां तरादिषु प्रत्ययेषु ब्रुवादौ चोत्तरपदे एकार्थे ह्रस्वः स्यात् । भोगवतितरा । गौरिमतितमा । भोगवतिरूपा ।