________________
१५३.
हैम शब्दानुशासनस्य
रिति किम् । अर्द्धप्रस्थभार्यः । अरक्तविकारइति किम् । काषायवृहतिकः । लौहेषः ॥ ५५ ॥
स्वाङ्गान्ङीर्जातिश्चाऽमानिनि । ३ । २ । ५६ ।
स्त्राङ्गाद्योङीस्तदन्तोजातिवाची च परतः स्त्री पुम्वन्न स्यात् नतु मानिनि । दीर्घकेशीभार्यः । कठीभार्यः । शूद्राभार्यः । स्वाङ्गादिति किम् । पटुभार्यः । अमानिनीति किम् । दीर्घकेशमानिनी ॥ ५६ ॥ पुम्वत्कर्म्मधारये । ३ । २।५७।
परतः स्त्री अनूङ् कर्म्मधारये सति स्त्र्येकार्थ्ये उत्तरपदे परे पुम्वत् स्यात् । कल्याणप्रिया । मद्रकभार्या । माथुरवृन्दारिका । चन्द्रमुखवृन्दारिका । अनूङित्येव । ब्रह्मबन्धूवृन्दारिका ॥ ५७ ॥ रिति । ३ । २ । ५८ ।
परतः स्त्री अनूङ रिति प्रत्यये पुम्वत्स्यात् । पटुजातीया । कठदेशीया ॥ ५८ ॥
स्वतेगुणः । ३ । २ । ५९ ।
परतः स्त्र्यनूङ गुणवचनस्त्वतयोः प्रत्यययोः पुम्वत्स्यात् । पत्वम् । पटुता । गुणइति किम् | कठीत्वम् ।। ५९ ।।
च्वौ कचित् । ३ । २ । ६० ।
परतः स्त्र्यनूङ् क्वचित् पुम्वत्स्यात् । महद्भूता कन्या । क्वचिदिति किम् । गोमतीभूता ॥ ६० ॥
सर्वादयोऽस्यादौ । ३ । २ । ६१ ।
सर्वादिः परतः स्त्री पुम्वत्स्यात् नतु स्यादौ । सर्वस्त्रियः । भवत्पुत्रः । अस्यादाविति किम् । सर्वस्यै ॥ ६१ ॥
मृगक्षीरादिषु वा । ३ । २ । ६२ ।