________________
स्वोपालधुवृत्तिः। क्यङ्मानिपित्तद्धिते । ३।२।५०।
क्यङि मानिनि चोत्तरपदे पित्तद्धिते च परतः स्त्रिलिङ्गोऽनूङ् पुम्बत्स्यात् । श्येतायते । दर्शनीयमान्ययमस्याः । अजयं यूथम् ॥५०॥ जातिश्च णितद्धितयस्वरे । ३।२।५१।
अन्याः परतः स्त्रीजातिश्च णौ प्रत्यये यादौ स्वरादौ च तद्धिते विषयभूते पुम्वत्स्यात् अनूङ्। पटयति । एत्यः। भावत्कम् । जातिः। दारद्यः। गार्गः । तद्धितेति किम् । हस्तिनीयति । हस्तिन्यः ॥ ५१ ॥
एयेऽग्नायी।३।२।५२। एयप्रत्यये ऽग्नाय्येच परतः स्त्री पुम्बत् स्यात् । आग्नेयः। पूर्वेण सिद्धे नियमामिदम् । श्यैनेयः ॥ ५२ ॥
नाप्रियादौ । ३।२।५३ । अप् प्रत्ययान्ते स्त्र्येकार्थे उत्तरपदे प्रियादौ च परतः स्त्री पुम्वन्न स्यात् । कल्याणीपञ्चमा रात्रयः। कल्याणीप्रियः। अप्रियादावितिकिम् । कल्याणपञ्चमीका पक्षः ॥ ५३॥ तद्धिताककोपान्त्यपूरण्याख्याः।३।२।५४॥
तद्धितस्याकप्रत्ययस्य च कउपान्त्योयासां ताः पूरणप्रत्ययान्ताः संज्ञा. श्च परतः स्त्री पुम्वन्न स्युः । मद्रिकामार्यः।कारिकाभार्यः। पञ्चमीभार्यः । दत्ताभार्यः । तद्धिताकेति किम् । पाकभार्यः ॥ ५४॥ . तद्धितः स्वरवृद्धिहेतुररक्तविकारे ।३।२।५५। ___ रक्तविकाराभ्यामऽन्यार्थः स्वरवृद्धिहेतुर्यस्तद्धितस्तदन्तः परतः स्त्री. पुम्वन्न स्यात् । माथुरीभार्यः। स्वरेति किम् । वैयाकरणभार्यः । वृद्धिहेतु