________________
२५२
हैमशब्दानुशासनस्य - षष्ठयाः क्षेपे । ३।२।३०। ' ' उत्तरपदे परे क्षेपे गम्ये षष्ठ्या लुब् न स्यात् । चौरस्यकुलम् ॥३०॥
पुत्रे वा।३।२।३१ । पुत्र उत्तरपदे क्षेपे षष्ठया लुब् वा न स्यात् । दास्याःपुत्रः । दासीपुत्रः ॥ ३१ ॥ पश्यद्वाग्दिशो हरयुक्तिदण्डे ।३।२।३२॥
एभ्यः परस्याः षष्ठया यथासंख्यं हरादावुत्तरपदे लुब् न स्यात् । पश्यतोहरः । वाचोयुक्तिः । दिशोदण्डः ॥ ३२॥
अदसोऽकायनणोः।३।२।३३। अदसः परस्याः षष्ठ्या अकश् विषये उत्तरपदे आयनणि च परे लुब् न स्यात् । आमुष्यपुत्रिका । आमुष्यायणः ॥ ३३ ॥
देवानां प्रियः । ३।२।३४। अत्र षष्ठया लुब् न स्यात् । देवानांप्रियः ॥ ३४ ॥ शेपपुच्छलाङ्गलेषु नाम्नि शुनः।३।२।३५। . शुनः परस्याः षष्ठयाः शेपादावुत्तरपदे संज्ञायां लुब् न स्यात् । शुनःशेषः । शुनःपुच्छः । शुनोलाङ्गुलकः ॥ ३५॥ वाचस्पतिवास्तोष्पतिदिवस्पतिदिवो
दासम्।३।२।३६। ... एते समासाः षष्ठ्यलुपि निपात्यन्ते नानि । वाचस्पतिः । वास्तोष्पतिः । दिवस्पतिः । दिवोदासः ॥ ३६ ॥