________________
स्वोपडलघुवृत्तिः।
१५१ अद्व्यञ्जनान्तात्कालवाचिनः परस्याः सप्तम्यास्तनादिप्रत्ययेषु कालेषुत्तरपदे वा लुब् न स्यात् । पूर्वाह्नतनः। पूर्वाह्नतनः । पूर्वाह्नतराम् । पूर्वाह्नतरे । पूर्वाह्नतमाम् । पूर्वाह्नतम । पूर्वाह्नकाले । पूर्वाह्नकाले । कालादिति किम् । शुक्लतरे । शुक्लतमे । अद्वयञ्जनादित्येव । रात्रितरायाम् ॥ २४ ॥ शयवासिवासेष्वकालात्।३।२।२५।
अकालवाचिनोऽव्यञ्जनात्परस्याः सप्तम्या एकूत्तरपदेषु लुब् वान स्यात् । बिलेशयः। बिलशयः। वनेवासी। वनवासी। ग्रामेवासः। ग्रामवासः। अकालादिति किम् । पूर्वाह्नशयः ॥ २५ ॥ वर्षक्षरवराप्सरःशरोरोमनसो जे।३।२।२६।
एभ्यः परस्याः सप्तम्या जे उत्तरपदे लुब्वा न स्यात् । वर्षेजः । वर्षजः। क्षरेजः। क्षरजः। वरेजः । वरजः । अप्सुजम् । अब्जम् । सरसिजम् । सरोजम् । शरेजम् । शरजम् । उरसिजः । उरोजः । मनसिजः । 'नोजः ॥ २७॥ धुप्रावृट्वषाशरत्कालात्।३।२।२७।
एभ्यः परस्याः सप्तम्या जे उत्तरपदे लुब् न स्यात् । दिविजः । प्रावृषिजः । वर्षासुजः । शरदिजः। कालेजः ॥ २७॥
अपो ययोनिमतिचरे।३।२।२८॥
अपः परस्याः सप्तम्या ये प्रत्यये योन्यादौ च उत्तरपदे लुब् न स्यात् । अप्सव्यः । अप्सुयोनिः । अप्सुमतिः। अप्सुचरः ॥ २८॥
नेसिद्धस्थे ।३।२।२९। इन्प्रत्ययान्ते सिद्धस्थयोश्चोत्तरपदयोन लुब् न स्यात् । भवत्येवेत्यर्थः। स्थण्डिलवर्ती । साङ्काश्यसिद्धः। समस्थः ॥२९॥