SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ हैम शब्दानुशासनस्य प्राक्कारस्य व्यञ्जने । ३ । २ । १९ । राजलभ्यो रक्षानिर्देशः कारः प्राचां देशे यः कारः तस्य संज्ञायां गम्यमानयामद्वयञ्जनात्परस्याः सप्तम्या व्यञ्जनादावुत्तरपदे लुब न स्यांत् । मुकुटेकार्षापणः । समिधिमाषकः । प्रागिति किस । यूथपशुः उदीचामयं न प्राचां । कारइति किम् | अभ्यर्हितपशुः । व्यञ्जनइति किम् | अविकटोरणः ॥ १९ ॥ १५० तत्पुरुषे कृतिः । ३ । २ । २० । अद्वयञ्जनात्परस्याः सप्तम्याः कृदन्ते उत्तरपदे तत्पुरुषे लुब न स्यात् । स्तम्बेरमः । भस्मनिहुतम् । तत्पुरुषइति किम् । धन्वकारकः । अद्वयञ्जनादित्येव । कुरुचरः ॥ २० ॥ मध्यान्ताद् गुरौ । ३ । २ । २१ । आभ्यां परस्याः सप्तम्या गुरावुत्तरपदे लुब न स्यात् । मध्येगुरुः । अन्तेगुरुः ॥ २१ ॥ अमूर्द्धमस्तकात्स्वाङ्गादकामे । ३ । २ । २२ । मूर्द्धमस्तक वजत्स्वाङ्गवाचिनोऽद्व्यञ्जनात्परस्याः सप्तम्याः कामवर्जे उत्तरपदे लुब न स्यात् । कण्ठेकालः । अमूर्द्धमस्तकादिति किम् । मूर्द्धशिखः मस्तकशिखः । अकामइति किम् । सुखकामः ॥ २२ ॥ बन्धे घञि नवा । ३ । २ । २३ । बन्धे घञन्ते उत्तरपदे अद्व्यञ्जनात्परस्याः सप्तम्या लुब्वा न PR . किया। "
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy